________________
नाम्नि प्रथमः पादः
[ ३१ दधि तिष्ठति । दधि पश्य । पयः तिष्ठति । पयः पश्य । शकारः सर्वादेशार्थः " श्लुचि” [ ] इति कार्यार्थश्च-तत् कुलम् । यत् कुलम् ॥ १२ ॥
जरसो वा । १३ । जरसन्तस्य नपुंसकलिङ्गस्य संबन्धिनोः स्यमोः श्लुग् वा भवति । अतिजरसं कुलम् , अतिजरः कुलम् ॥ १३ ॥
इका लुग च । १४ । इगन्तस्य नपुंसकलिङ्गस्य संबन्धिनोः स्यमोः श्लुक् लुग् च भवति ।
हे वारे !, हे वारि !। हे कर्तः !, हे कर्तृ ! । प्रियतिसू, प्रियत्रि कुलम् । इक इति किम् ? तत् कुलम् ॥ १४ ॥
पुंवच्च अन्यतः टादौ स्वरे । १५ । इगन्तं शब्दरूपम् अन्यतः विशेष्यवशात् नपुंसकार्थ टादौ स्वरे परे वा पुंवद् भवति ।
ग्रामण्या, ग्रामणिना कुलेन । चित्रगुणे, चित्रगवे कुलाय । कर्तृणा, क; कुलेन । अन्यतः इति किम् ? पीलुने फलाय । टादौ इति किम् ? ग्रामणिनी कुले । स्वर इति किम् ? ग्रामणिभ्याम् । इक इति किम् ? कीलालपेन कुलेन । चकारः 'वा' अनुकर्षणार्थः तत उत्तरत्र नानुवर्तते ॥ १५ ॥
अस्थि-सक्थि-अक्षि-धनः अनङ् । १६ । 'अस्थि' आदीनां नपुंसकलिङ्गानाम् इगन्तानां टादौ स्वरे परे 'अनङ् अन्तादेशो भवति ।
अस्थ्ना । सक्थ्ना । अक्ष्णा । दध्ना । प्रियास्थ्या शुन्या । स्वरे इति किम् ? अस्थिभ्याम् । नपुंसकानाम् इति किम् ? दधिर्नाम कश्चित् धानशीलो वा-तस्मै दधये ॥१६॥
नम् स्यादौ । १७।। इगन्तस्य नपुंसकलिङ्गस्य तत्संबन्धिनि स्वरादौ स्यादौ परे नम् भवति ।
वारिणी । वारोणाम् । स्यादौ इति किम् ? तौम्बुरवं चूर्णम् । तत्संबन्धिनि इति किम् ? निर्वारी कूपौ । स्वर इति किम् ? हे त्रपो! । इक इति किम् ? कुण्डे ॥ १७ ॥
स्वरात् शौ । १८ । स्वरान्तात् नपुंसकलिङ्गात् विहिते शौ परे नम् भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org