________________
३०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सुश्रोता ३ देहि । रेः इति किम् ? अन्तर् अस्मि । अन्तर् दयते । अ-घोषवतोः इति किम् ? कः खनति ॥ ७ ॥
तदः स्वरे लुक् पादपूरणे । ८ । 'तद्'शब्दस्य संबन्धिनः अकारात् परस्य रेः स्थाने स्वरे परे लुग् भवति, लोपेन चेत् पादः पूर्यते ।
___" सैष दाशरथी रामः सैष राजा युधिष्ठिरः " | पादपूरणे इति किम् ? " स एष भरतो राजा"' ॥ ८ ॥
एतदश्च व्यञ्जने अनक-नसमासे । ९ । तदः एतदश्च संबन्धिनः अकारात् परस्य रेः स्थाने व्यञ्जने परे लुग् भवति, अकि नसमासे च न ।
एष सरुकः । स क्षरति । परमैष करोति । परमस ददाति । व्यञ्जने इति किम् ? एषोऽस्मि । सोऽहम् । अनक्-नसमासे इति किम् ? एषकः करोति। सकः करोति । अनेषो गच्छति । असो गच्छति ॥ ९॥
पश्चतः नपः अनेकतरस्य अन्यादेः स्यमोर्दश् । १० ।
पञ्चपरिमागस्य नपुंसकलिङ्गस्य अन्यादेः संबन्धिनोः स्यमोर्दश् आदेशो भवति, एकतरशब्दं वैर्जित्वा ।
अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् । हे अन्यत् । हे अन्यतरत् । पञ्चत इति किम् ? नेमं तिष्ठति । नेमं पश्य । नप इति किम् ? अन्यः पुरुषः । अन्यादेः संबन्धिनोः इति किम् ? प्रियान्यं तिष्ठति । प्रियान्यं पश्य । शकारः सर्वादेशार्थः । अकार उच्चारणार्थः ॥ १० ॥
अतः अम् । ११। अकारान्तस्य नपुंसकलिङ्गस्य संबन्धिनोः स्यमोः अम् आदेशो भवति ।
कुण्डं तिष्ठति । कुण्डं पश्य । 'म्' इत्यनुक्त्वा 'अम्' विधानं जरसर्थम्-अतिजरसं कुलम् । अत एव 'अम्'विधानात् सन्निपातपरिभाषा नोपतिष्ठते ॥ ११ ॥
श्लुक । १२। नपुंसकलिङ्गस्य संबन्धिनोः स्यमोः श्लुग् भवति ।
१. “यो न्याय्ये पथि वर्तते” इत्यधिकम् शाक० अमोघवृ० ।१।११५९ । २. वर्जयित्वा पू० । ३. “सन्निपातलक्षणो विधिः अनिमित्तं तद्विघातस्य" इत्येवं सन्निपातपरिभाषा-(न्यायसंग्रहे न्याय १९, पृ० १९ ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org