SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ नाम्नि प्रथमः पादः समः सटि सादौ लुगू वा । १ । समः अन्तस्य सकारादौ सटि परे लुग् वा भवति । सस्कर्ता, संस्कर्ता । सादौ इति किम् ? सञ्चस्कार । समकरोत् ॥ १ ॥ अवर्ण- भो भगो-अघोभ्यः रेः यः स्वरे । २ । अवर्णात् भो भगो- अघोभ्यश्व परस्य रेः स्वरे परे यकार आदेशो भवति । कयास्ते । देवायासते । भोयत्र । भगोयत्र । अघोयत्र । स्वर इति किम् ? कः करोति ॥ २ ॥ लुगू गित् । ३ । अवर्ण-भो भगो-अघोभ्यः परस्य रेः स्वरे परे लुग् भवति, स च गित् । क आस्ते । देवा आसते । भो अत्र । भगो अत्र । अघो अत्र । लुचो गित्वात् सन्धिकार्याभावः ॥ ३ ॥ घोषवति । ४ । अवर्ण-भो-भगो-अघोभ्यः परस्य रेः घोषवति परे लुगू भवति । देवा यान्ति । भो हसति । भगो हसति । अघो हसति ॥ ४ ॥ व्योः अवर्णात् । ५ । अवर्णात् परयोः वकारयकारयोः घोषवति परे लुग् भवति । वृक्षवृश्चमाचक्षाणो वृक्षव् - वृक्ष हसति । अव्यय्-अव्य गच्छति । कुलाय्-कुला हसति ॥ ५ ॥ स्वरे वा । ६ । अवर्णात् परयोः वकार - यकारयोः स्वरे परे लुग् भवति वा, सा च गित् । पट इह, पटविह । असा इन्दुः, असाविन्दुः । त आहुः, तयाहुः ॥ ६ ॥ उत् अतः रेः अ-घोषवतोः । ७ । अकारात् परस्य रेः स्थाने अकारे घोषवति च परे उकारादेशो भवति । श्रमणोऽस्ति । धर्मो जयति । अहोभ्याम् । अत इति किम् ? सुश्रोता ३ अत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy