SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । निष्टपति सुवर्ण सुवर्णकारः। निष्टमा अरातयः । अनासेवायाम् इति किम् ? निस्तपति सुवर्ण सुवर्णकारः इति आसेवायाम् । तादौ इति किम् ? निरतपत् । 'तिप्' निर्देशात् यङः श्लुचि न भवति-निस्तातपीति । “ तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यश्लुचि ॥" [न्यायसंग्रहे न्याय १८] ॥४१॥ कस्क-आदयः । ४२ । एते 'कस्क' आदयः शब्दा रेफस्य अशिट्परेषु क-ख-प-फेषु 'सु' आदेशेन निपात्यन्ते । __ कस्कः । कौतस्कुतः । भ्रातुष्पुत्रः । शुनस्कर्णः । सद्यस्कालः । साद्यस्क्रम् । तमस्काण्डम् । अयस्कान्तः । अयस्पिण्डः । सर्पिष्कुण्डिका । यजुष्पात्रम् इति कस्कादिः, आकृतिगणश्चायम् अत एव बहुवचनम् ॥ ४२ ॥ विसर्गः। ४३ । पदान्ते वर्तमानस्य रेफस्य विसर्गो भवति । कः करोति । 'तवर्षभः' 'सुखार्तः' 'नार्कुटः' 'नापत्यः' इति रेफस्य बहिरङ्गत्वाद् न भवति ॥ ४३ ॥ न अविरामे घोषवत्-स्वरे । ४४ । घोषवति स्वरे च परे पदान्ते वर्तमानस्य रेफस्य विसर्गो न भवति, न चेत् स रेफो विरामे । साधुर्दयते । मुनिरयम् । अविराम इति किम् ? अग्निः अत्र । अत एव 'अविराम' इति वचनात् "न इतः प्राग् दशः” [ द्विती० सन्धिः सू० २१ ] इति विरामे न विसर्गप्रतिषेधः ॥ ४४ ॥ वा अहपत्यादयः। ४५। 'अहर्पति' आदयः रेफस्य विसर्ग-उत्वभावा-ऽभावाभ्यां वा निपात्यन्ते । अहर्पतिः, अहःपतिः । गीर्पतिः, गी:पतिः । धूर्पतिः, धूःपति । हे प्रचेता राजन् !, हे प्रचेतो राजन् ! ॥ ४५ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ पञ्चमः सन्धिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy