SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सन्धिः [ २७ शिरस्पदम् | अधस्पदम् । पदे इति किम् ? शिरः खण्डम् | समास इति किम् ? अधः पदम् । असमस्तस्य इति किम् ? परमशिरः पदम् || ३६ ॥ कृ- कमि कंस - कुशा- कुम्भकर्णी-पात्रे अतः अनव्ययस्य । ३७ । अनव्ययस्य पूर्वेण असमस्तस्य संबन्धिनः रेफस्य अकारात् परस्य कृ-कमआदिषु परेषु 'सु' आदेशो भवति, स्थानि - निमित्ते चेद् एकत्र समासे भवतः । अयस्कृत् । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुशा । पयस्कुम्भः । पयस्कर्णी । अयस्पात्रम् । “नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्” [ न्यायसंग्रहे न्याय १६ ] अयस्पात्री । अत इति किम् ? भाःकरणम् । अनव्ययस्य इति किम् ? पुनःकरणम् । असमस्तस्य इति किम् ? परमयशः कामः । समासे कृ कम्यादीनामुत्तरपदत्वविज्ञानाद् इह न भवति । पयसः कुम्भकपालम् पयः कुम्भकपालम् । अत्र हि 'कुम्भकपाल' इत्येतावद् उत्तरपदम् न कुम्भशब्दः ॥ ३७ ॥ प्रत्यये । ३८ । अनव्ययस्य संबन्धिनः रेफस्य अशिट्परेषु क-ख-प-फेषु प्रत्ययस्थेषु 'सुः ' आदेशो भवति । पयस्कल्पम् । गीपाशा । अनव्ययस्य इति किम् ? प्रातःकल्पम् ॥ ३८ ॥ रेः काम्ये । ३९ । काम्यप्रत्यये परे रिरूपस्यैव रेफस्य 'सुः' आदेशो भवति । यशस्काम्यति । पूर्वेणैव सिद्धे नियमार्थो योगः - इह न भवति — धूः काम्यति । अहः काम्यति ॥ ३९॥ नाम्नः स्वात् तादौ । ४० । विहिते तकारादौ प्रत्यये परे हूस्वात् परस्य रेफस्य 'सुः' आदेशो भवति । सर्पिष्टरम् । नाम्नः इति किम् ? चक्रुस्तराम् । हूस्वादिति किम् ? 'गीस्तरा । प्रत्यय इति किम् ? सर्पिस्तरति ॥ ४० ॥ निसः अनासेवायां तपतौ । ४१ । आसेवा पुनः पुनः करणम्, तदभावः अनासेवा, तस्यां गम्यमानायां निसः संबन्धिनः रेफस्य तकारादौ तपतौ परे 'सुः' आदेशो भवति । १. गीस्तराम् पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy