________________
२६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
सुचः वा । ३२। 'सुच्' प्रत्ययान्तस्य संबन्धिनो रेफस्य अशिट्परेषु क-ख-प-फेषु परेषु सुः आदेशो वा भवति ।
द्विष्करोति, द्विः करोति । चतुष्पिबति, चतुः पिबति । 'चतुः'शब्दस्य सुजन्तस्य परत्वाद् अनेन विकल्पः । अशिट्पर इति किम् ? द्विः क्षरति ॥ ३२ ॥
इम्-उसः व्यपेक्षायाम् । ३३ । इस्-उस्प्रत्ययान्तस्य संबन्धिनो रेफस्य अशिट्परेषु क-ख-प-फेषु परेषु 'सुः' आदेशो भवति वा । स्थानि-निमित्ते चेत् पदे परस्परव्यपेक्षायां भवतः ।
सर्पिष्करोति, सर्पिः करोति । सर्पिष्पिबति, सर्पिः पिबति । धनुष्खण्डयति, धनुःखण्डयति । इस्-उसोः प्रत्यययोर्ग्रहणात् इह न भवति । मुनिः करोति । मुहुः पठति । इसा साहचर्याद् उसः अतिवादेर्ग्रहणात् इह न भवति । भिन्द्युः पापानि । व्यपेक्षायामिति किम् ? तिष्ठतु सर्पिः पिब त्वमुदकम् । परमसर्पिः कुण्डम् । व्यपेक्षा हि भिन्नपदविषयत्वाद् वाक्ये एव भवति-इति ऐकपद्ये न भवति ॥ ३३ ॥
___न अफ्रियापदैकार्थे । ३४ । इस-उस्प्रत्ययान्तस्य संबन्धिनो रेफस्य अशिट्परेषु क-ख-प-फेषु क्रियापदवर्जितसमानाधिकरणपदस्थेषु परेषु 'सुः' आदेशो न भवति व्यपेक्षायाम् ।।
सर्पिः कालकम् । यजुः पीतकम् । अक्रियापद-इति किम् ? सर्पिष्क्रियते, सर्पिःक्रियते । एकार्थ इति किम् ? सर्पिष्कुम्भे, सर्पिः कुम्भे ॥ ३४ ॥
__ असमस्तस्य समासे । ३५ । पूर्वेण असमस्तस्य इस्-उस्प्रत्ययान्तस्य संबन्धिनो रेफस्य अशिट्परेषु क-खप-फेषु 'सुः' आदेशो भवति, स्थानि-निमित्ते चेद् एकत्र समासे भवतः ।
सर्पिष्कुण्डम् । धनुष्खण्डम् । समास इति किम् ? तिष्ठतु सर्पिः पिब त्वमुदकम् । असमस्तस्य इति किम् ? परमसर्पिः कुण्डम् । इस्-उस्ग्रहणे "प्रत्ययः प्रकृत्यादेः” [ ] इति नियमो न लभ्यते, तत्र इदमेव लिङ्गम् तेन व्यपेक्षायां समस्तस्यापि भवति । परमसर्पिष्करोति । इह च बहुसर्पिष्कुण्डम्-इति ॥ ३५ ॥
शिरस्-अधसः पदे । ३६ । पूर्वेण असमस्तयोः शिरस्-अधस्शब्दयोः संबन्धिनः रेफस्य पदशब्दे परे 'सुः' आदेशो भवति, स्थानि-निमित्ते चेद् एकत्र, समासे भवतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org