________________
पञ्चमः सन्धिः
[ २५
कश्चरति । कश्छादयति । कष्टीकते । कष्ठकारेण । कस्तरति । कस्थुडति । अशिटूपर इति किम् ? पुरुषः त्सरुकः ।। २६ ।।
श-ष-से वा अघोषपरे तु लुक् च । २७ ।
पदान्ते वर्तमानस्य रेफस्य अशिट्परेषु श-ष- सेषु परेषु सकारादेशो भवति, अघोषपरेषु तु लुक् च वा ।
करशेते, कः शेते । कष्पण्डे, कः षण्डे । कस्साधुः कः साधुः । चेतरस्स्खलति, चेत स्खलति, चेतः स्खलति । अशिट्पर इति किम् ? कः शकारः ॥ २७ ॥ क-ख-प-फयोः क- पौ । २८ ।
पदान्ते वर्तमानस्य रेफस्य क-खयोः प-फयोश्च परयोः अशिट्परयोः यथासंख्यं कप इत्यादेशौ भवतः वा ।
क करोति, कः करोति । कः खनति, कः खनति । क पचति, कः पचति । कर फलति, कः फलति । अन्तः करोति, अन्तः करोति । अशिटूपर इति किम् ? वासः क्षौमम् । ककार -पकार- अकारी उच्चारणार्थाः ॥ २८ ॥
गतेः तिरसः सुः । २९ ।
गतिसंज्ञकस्य ‘तिरस्' शब्दस्य संबन्धिनो रेफस्य अशिट्परेषु क-ख-प-फेषु परेषु 'सुः' आदेशो वा भवति ।
तिरस्कृत्य, तिरःकृत्य । गतेरिति किम् ? तिरः कृत्वा – तिर्यग् इत्यर्थः ॥ २९ ॥ नमस्-पुरसः । ३० । अनयोर्गतिसंज्ञकयोः संबन्धिनो रेफस्य अशिपरेषु क- स्व-प- फेषु परेषु 'सुः' आदेशो
भवति ।
नमस्कृत्य । पुरस्कृत्य । गतिसंज्ञकयोरिति किम् ? पुरः करोति-नगरीः इत्यर्थः । पृथग्योगो नित्यार्थः ॥ ३० ॥
चतुर्-निर्-दुर्-बहिर् आविस्- प्रादुसः । ३१ ।
एषां रेफस्य अशिëपरेषु क-ख-प- फेषु 'सुः' आदेशो भवति ।
चतुष्काण्डकम् । चतुष्पात्रम् । निष्करोति । निष्पिबति । दुष्करोति । दुष्पिबति । बहिष्करोति । बहिष्पिबति । आविष्करोति । आविष्पित्रति । प्रादुष्करोति प्रादुष्पिबति ॥ ३१ ॥
१. अत्र सर्वत्र श्रीहेमाचार्याः 'अशिट्परेषु' इति न निर्दिशन्ति - २ ३११ इत्यतः सर्वत्र विधानप्रकरणे |
४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org