________________
२४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
शि चक् । २१।। पदान्ते वर्तमानस्य नकारस्य श्वसंयोगावयववर्जिते शकारे परे चक् आगमो वा भवति ।
कुर्वञ्च शेते, कुर्वञ् शेते । अश्व इति किम् ? भवान् श्च्योतति । चकारविधानसामर्थ्यात् चकः कुत्वं न भवति ॥ २१ ॥
नृनः पे वा रक् । २२। 'नन्' इत्येतस्य नकारस्य पदान्ते वर्तमानस्य पकारे परे रक् आगमो भवति वा । नः पाहि, नून् पाहि । 'वा' ग्रहणम् उत्तरत्र 'वा' अधिकारनिवृत्त्यर्थम् ।। २२॥
द्वित्वे कानः कानि सक् । २३ । द्वित्वे सति 'कान्' इत्येतस्य नकारस्य कानि परे सबै आगमो भवति । कांस्कान् । सको विधानसामर्थ्यात् रिर्न भवति । अन्यथा 'रक्' एव अनुव]त ॥२३॥
पुमः अघोषे अशिटि अधुट्परे । २४ । 'पुम्' इत्येतदन्तस्य पदान्ते वर्तमानस्य अधुट्परे अशिटि अघोषे परे सक् आगमो भवति ।
पुस्कोकिलः । पुस्खननम् । अघोष इति किम् ? पुंदासः । अशिटि इति किम् ? पुंशरः । अधुट्परे इति किम् ? पुंक्षुरः ॥ २४ ॥
नः अप्रशानः च-छ-ट-ठ-त-थे । २५ । _ 'प्रशान्' शब्दवर्जितस्य नकारस्य पदान्ते वर्तमानस्य च-छ-ट-ठ-त-थेषु अधुट्परेषु सक् आगमो भवति ।
भवांश्चरति । भवांश्छादयति । भवांष्टीकते । भवांष्ठकारेण । भवांस्तरति । भवांस्थुडति। अप्रशान इति किम् ? प्रशान् चरति। अधुट्पर इति किम् ? भवान्त्सरुकः । पदान्त इति किम् ? भवन्तः ॥ २५॥
रः सः अशिटपरे । २६ । ___ पदान्ते वर्तमानस्य रेफस्य अशिट्परेषु च-छ-ट-ठ-त-थेर्पा परेषु सकारादेशो भवति।
१. अत्र श्रीहेमाचार्याः रकारम् आदेशं निर्दिशन्ति तथा रकारात् पूर्वस्य अनुस्वारअनुनासिकौ च भवतः इत्यपि सूचयन्ति । उदाहरन्ति च -नूंपाहि, नॅ>पाहि, नृन् पाहि-।१।३।१०।
अत्रापि सर्वत्र श्रीहेमाचार्याः सकारम् आदेशं कथयन्ति पूर्वस्य च अनुस्वार-अनुनासिकौ । १1११-९-८।३. -षु सकारा-पा०। ४. पूर्वसूत्रेषु आगमविधानात् तस्यैव च अनवर्तनात अत्र अधस्ताच श्रीमलयगिरिसूरिः ‘सकारादेशम्' इति कथं कथयितुं शक्तः ? इति न गम्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org