________________
पञ्चमः सन्धिः
[ २३ लि लौ । १४। तवर्गस्य पदान्ते वर्तमानस्य स्थानिनः प्रत्यासत्त्या लकारे परे लौ सानुनासिकनिरनुनासिकरूपौ भवतः । तल्लुनाति । भवाँल्लिखति ॥ १४ ॥
हः तृतीयात् चतुर्थो वा । १५ । पदान्ते वर्तमानात् तृतीयात् परस्य हकारस्य प्रत्यासत्या पूर्वचतुर्थो वा भवति ।
वाग्धीनः, वाग्रहीनः अज्झलौ, अज्हलौ । षड्ढलानि, षड् हलानि । तद्धितम्, तहितम् । त्रिष्टुब्भुतम् , त्रिष्टुब्हुतम् । तृतीयात् इति किम् ? भवान् हरति ॥ १५ ॥
शस्य अधुटि प्रथमात् छः। १६ । पदान्ते वर्तमानात् प्रथमात् परस्य शकारस्य अधुटि परे छकारो वा भवति ।
वाक्छूरः, वाक्शूरः । तच्छ्मशानम् , तच्श्मशानम् । अधुटि इति किम् ? वाक् च्योतति । प्रथमात् इति किम् ? भवान् शोभनः ॥ १६ ॥
शिटि ङः कक् । १७ । पदान्ते वर्तमानस्य ङकारस्य शिटि परे कक् आगमो भवति वा । क्रुक् छेते, क्रुङ् शेते । शिटि इति किम् ? प्राङ् करोति ॥ १७ ॥
णः टक् । १८। पदान्ते वर्तमानस्य णकारस्य शिटि परे टक् आगमो भवति वा । सुगण्ट् छेते , सुगण शेते ॥ १८ ॥
डः सः अश्वः तत् । १९ । पदान्ते वर्तमानात् डकारात् परस्य सकारस्य तट् आगमो वा भवति । न चेत् स सकारः श्वसंयोगावयवो भवति । मधुलिड्त् सीदति, मधुलिट् सीदति । अश्च इति किम् ? षट् न्योतन्ति ॥१९॥
नः । २० । पदान्ते वर्तमानात् नकारात् परस्य सकारस्य श्वसंयोगावयववर्जितस्य तट् आगमो वा भवति । . महान्त् संसदि, महान् संसदि । अश्च इति किम् ? भवान् श्च्योतति ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org