SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २२] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । तृतीयः तृतीय-चतुर्थयोः । ७। धुटः स्थाने तृतीये चतुर्थे च परे तृतीयः आदेशो भवति । मज्जति । बोद्धा । तृतीय-चतुर्थयोः इति किम् ? नृत्तम् ॥ ७ ॥ अघोषे प्रथमः अशिटः। ८। अघोषे परे अशिटः धुटः प्रथमो भवति । देवच्छत्रम् । गुडलिट् तरति । लप्स्यते । अघोष इति किम् ? भज्यते । अशिट इति किम् ? आगमश् शोभते ॥ ८ ॥ श्चुना योगे स्त्वोः श्च । ९। सकारस्य शकारेण चवर्गेग च योगे शकारो भवति तवर्गस्य च चवर्गः । आगमश् शोभते । तपश्चरति । मजति । तवर्गस्यतच् शोभते । तच् चरति । तच छादयति । भवाञ् जयति । राज्ञः ॥ ९ ॥ ष्टुना ष्ट्र।१०। सकारस्य षकारेण टवर्गेण च योगे षकारो भवति, तवर्गस्य च टवर्गः । कष्षण्डे । कष्टीकते । तवर्गस्य - पेष्टा । तट्टीकते । तट्टकारेण । भवाण्णकारेण । अइति ॥ १० ॥ न शात् । ११ । शकारात् परस्य श्रुत्वं न भवति । अश्नाति ॥ ११ ॥ . पदान्ते टोः अनाम्-नगरी-नवतेः। १२ । पदान्ते वर्तमानात् टवर्गात् परस्य ष्टुत्वं न भवति, नाम्-नगरी-नवतिशब्दान् वर्जित्वा । मधुलिट् सीदति । षण्नयाः । टोः इति किम् ? चतुष्टयम् । पदान्ते इति किम् ? ईट्टे । अनाम्-नगरी-नवतेः इति किम् ? षण्णाम् । षण्णगरी । षण्णवतिः ॥ १२ ॥ तोः षि। १३ । तवर्गस्य पदान्ते वर्तमानस्य षकारे परे ष्टुत्वं न भवति । अग्निचित् षडिकः । महान् षण्डः । तोः इति किम् ? कष्षण्डे ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy