________________
तद्धिते दशमः पादः
[ ४१५ शुल्कशालायाः आगतम् शौल्कशालिकम् ॥ ५२ ।।
नृ-हेतुभ्यः रूप्य-मयटौ वा । ५३ । नृवाचिनः हेतुवाचिनश्च पञ्चम्यन्तात् आगते अर्थे रूप्य-मयटौ प्रत्ययौ भवतः, पक्षे यथाप्राप्तम् । वचनभेदाच्च न यथासंख्यम् ।
देवदत्तात् आगतम् देवदत्तरूप्यम् । देवदत्तमयम् । पक्षे देवदत्तम् ।
हेतु-शमात् आगतं शमरूप्यम् । शममयम् । पक्षे शमीयम् । गहादित्वात् ईयः । नृग्रहणम् अहेत्वर्थम् ॥ ५३ ॥
गोत्रात् अङ्कवत् । ५४। गोत्रवाचिनः पञ्चम्यन्तात् आगते अर्थे अङ्कवत् प्रत्ययो भवति ।
यथा-'वैदः, गार्गः, दाक्षः अङ्कः' इति अणो भवति तथा इह अपि विदेभ्यः आगतम् वैदम् , गार्गम् , दाक्षम् इत्यादि ॥ ५४ ॥
प्रभवति । ५५। पञ्चम्यन्तात् प्रभवति-प्रथमतः उपलभ्यमाने जायमाने वा यथाविहितं प्रत्यया भवन्ति । 'जाते' [ ] इति भूते सप्तम्यन्तात् , अयं तु पञ्चम्यन्तात् वर्तमाने इति अर्थभेदः । हिमवतः प्रभवति हैमवती गङ्गा ।। ५५ ॥ .
'त्यद'आदेः मयट् । ५६ । एभ्यः पञ्चम्यन्तेभ्यः प्रभवति अर्थे मयट् प्रत्ययो भवति । तन्मयम् । भवन्मयम् ॥ ५६ ॥
ऋच-ऋत्-इज्या-द्वयचः इकण । ५७।। 'ऋच' इति एतस्मात् , ऋकारान्तात् , द्विअचकात्, इज्याभ्यः-यागशब्देभ्यश्च ग्रन्थकादिभ्यः तस्य व्याख्याने तत्र भवे च इकण् प्रत्ययो भवति । 'अण्'आदेः अपवादः।
ऋचः-ऑर्चिकम् । ऋकारान्त-चतुषु होतृषु भव इत्यणो लुपि चतुर्होता ग्रन्थः तस्य व्याख्यानम्
१. 'अणा प्रत्ययेन रूपाणि भवन्ति यथा' इति गम्यम् । २ खण्डितम् । ३. ऋचां व्याख्यानम् ऋक्षु वा भवम् इति आर्चिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org