________________
४१६ ]
तत्र भवं वा चातुर्होतृकम् । एवम् पाञ्चहोतृकम् । इया--आग्निष्टोमिकम् ।
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
द्विस्वर-आङ्गिकम् । ‘इज्या' ग्रहणम् 'बहुस्वरात् प्राय:' [ अधस्तनमेव एकोनषष्टितमं सूत्रम् ] इत्यस्यैव प्रपञ्चः ॥ ५७ ॥
ऋषेः अध्याये । ५८ ।
'ऋषि' शब्देभ्यः ग्रन्थवाचिभ्यः तस्य व्याख्याने तत्र भवे च अर्थे अध्याये इकण प्रत्ययो भवति ।
वशिष्ठस्य ग्रन्थस्य व्याख्यानम् तत्र भवः वा वाशिष्ठिकः । अध्याये इति किम् ? वाशिष्ठी ऋक् ॥ ५८ ॥
बहुस्वरात् प्रायः । ५९ ।
बहुस्वरात् ग्रन्थवाचिनः तस्य व्याख्याने तत्र भवे च अर्थे इकण् प्रत्ययो भवति । पात्वणत्विकम् । आध्वरिकम् । नामाख्यातिकम् । आख्यातिकम् । 'प्रायः’ वचनात् कचित् न भवति - सांहितम् ॥ ५९॥
पुरोडाश- पौरोडाशात् इक- इकडौ । ६० ।
आभ्याम् तस्य व्याख्याने तत्र भवे च अर्थे प्रायः 'इक-इकट्’प्रत्ययौ भवतः । वचनभेदात् यथासंख्याऽभावः ।
पुरोडाशाः पिष्टपिण्डाः तत्सहचरितः मन्त्रः पुरोडाशः तस्य व्याख्यानम् तत्र भवः वा पुरोडाशिकः, पुरोडाशिका, पुरोडाशिकी । पुरोडाशस्य संस्कारः मन्त्रः पौरोडाशः तस्य व्याख्यानम् तत्र भवः वा पौरोडाशिकः, पौरोडाशिका, पौरोडाशिकी ॥ ६० ॥
छन्दसः यः । ६१ ।
'छन्दस्' शब्दात् तस्य व्याख्याने तत्र भवे च अर्थे यः प्रत्ययो भवति । छन्दसः व्याख्यानम् तत्र भवः वा छन्दस्यः ।। ६१ ॥
'शिक्षा' आदेश्व अण् । ६२ ।
एभ्यः ‘छन्दः’शब्दाच्च ग्रन्थवाचिनः तस्य व्याख्याने तत्र भवे च अण् भवति । शिक्षायाः शैक्षः । आर्गयनः इत्यादि । छान्दसः अस्य एवं द्वैरूप्यम् । शिक्षा ऋगयन पदव्याख्यान छन्दोमान छन्दोभाषा छन्दोविचिति न्याय पुनरुक्त १. छान्दसः छन्दस्यः इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org