________________
४१४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सुदामतः । हिमवत्तः । प्रत्ययान्तरार्थम् वचनम् ॥ ४५ ॥
___ यः च उरसः। ४६। 'उरस्'शब्दात् तृतीयान्तात् एकदिशि तस् यश्च प्रत्ययो भवति । उरसा एक दिक् उरस्यः, उरस्तः ।। ४६ ॥
उसेः आगतः। ४७। ङसेः पञ्चम्यन्तात् आगते अर्थे यथाविहितं प्रत्ययो भवति ।
स्रुघ्नात् आगतः स्रौनः । राष्ट्रियः । मुन्नात् आगच्छन् वृक्षमूलात् आगतः इत्यादौ 'वृक्षमूल आदेः अनभिधानात् न भवति ।। ४७ ॥
'शुण्डिक आदेः अण् । ४८ । एभ्यः पञ्चम्यन्तेभ्यः आगते अर्थे अण् प्रत्ययो भवति ।
शुण्डिकात् आगतम् शौण्डिकम् । औदपानम् । शुण्डिक उदपान कृपग पर्ण तृण तूर्ण स्थण्डिल उपल उदक भूमि पिष्पल इति शुण्डिकआदिः ॥ ४८ ॥
विद्या-योनिसंबन्धात् वुन । ४९ । विद्याकृतः योनिकृतः वा संबन्धः तद्वाचिनः पञ्चम्यन्तात् आगते अर्थे वुञ् प्रत्ययो भवति । आचार्यात् आगतम् आचार्यकम् । मातुलकम् ॥ ४९ ॥
पित्र्यं वा । ५०। 'पितृ'शब्दात् योनिसंबन्धवाचिनः पञ्चम्यन्तात् आगते अर्थे 'य'प्रत्ययो वा निपात्यते । पित्र्यम् पक्षे पैतृकम् ॥ ५० ॥
ऋतः इकण् । ५१। 'ऋकार'अन्तात् विद्या-योनिसंबन्धवाचिनः पञ्चम्यन्तात् आगते अर्थे इकण् प्रत्ययो भवति । होतुः आगतम् हौतृकम् ॥ ५१ ॥
___ आयस्थानात् । ५२। स्वामिना ग्राह्यः भागः आयः तस्य स्थानम्- उत्पत्तिदेशः, तद्वाचिनः पञ्चम्यन्तात् आगते अर्थे इकण् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org