________________
तद्धिते दशमः पादः ..
[४१३ टः इति तृतीयान्तात् प्रोक्ते अर्थे णिन् प्रत्ययो भवति, स चेत् प्रोक्तः पुराणः कल्पः स्यात् ।
पिङ्गेन प्रोक्तः कल्पः पुराणः पैङ्गी कल्पः । पुराणे इति किम् ? आश्मरथः कल्पःअश्मरथेन हि प्रोक्तः कल्पः उत्तरकल्पेभ्यः आरातीयः श्रूयते ॥ ४० ॥
काश्यप-कौशिकात् वेदवत् च । ४१ । आभ्यां प्रोक्त पुराणे कल्पे अर्थे णिन् प्रत्ययो भवति, वेदवत् च अस्मिन् कार्यम् ।
काश्यपेन प्रोक्तस्य कल्पस्य पुराणस्य बोद्धारः अध्येतारो वा काश्यपिनः । कौशिकिनः । काश्यपिनाम् धर्मः आम्नायो वा काश्यपकम् । कौशिककम् ॥ ४१ ॥
शिलालि-पाराशर्यात् नट-भिक्षुसूत्रे । ४२। आभ्याम् तृतीयान्ताभ्याम् यथासंख्यम् नटसूत्रे भिक्षुसूत्रे च प्रोक्ते गिन् प्रत्ययो भवति, वेदवत् च अस्मिन् कार्यम् ।
शिलालिना प्रोक्तस्य नटसूत्रस्य बोद्धारः अध्येतारो वा शैलालिनः नटाः । पाराशरिणः भिक्षवः । शैलालिनाम् धर्मः आम्नायो वा शैलालकम् । पाराशरकम् । नट-भिक्षुसूत्रे इति किम् ? शैलालम् । पाराशरम् ।। ४२ ॥
कृशाश्व-कापिलेय-कर्मन्दात् इन् । ४३ । कृशाश्व-कापिलेयाभ्याम् तृतीयान्ताभ्याम् नटसूत्रे कर्मन्दात् भिक्षुसूत्रे प्रोक्ते इन् प्रत्ययो भवति, वेदवत् च अस्मिन् कार्यम् ।
कृशाश्विनः, कापिलेयिनः नटाः । कर्मन्दिनः भिक्षवः । कृशाश्विनाम् धर्मः आम्नायः वा काश्विकम् । कापिलेयकम् । कार्मन्दकम् ॥ ४३ ॥
एकदिशि । ४४। तृतीयान्तात् एकदिशि यथाविहितं प्रत्ययो भवति । एका समाना साधारणा दिक् यस्य स एकदिक् ।
सुदाम्ना पर्वतेन एकदिक् सौदामिनी विद्युत्-सुदामा पर्वतः यस्यां दिशि तस्यामेव विद्युत् तेन एकदिग् उच्यते । एवम् हैमवती ॥ ४४ ॥
तस् । ४५। तृतीयान्तात् एकदिशि तस् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org