________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
प्रोक्ते। ३४। प्रकर्षण व्याख्यातम् अधीतम् वा प्रोक्तम् न तु कृतम् , कृते पूर्वेण एव सिद्धत्वात् । टः इति तृतीयान्तात् प्रोक्ते अर्थे यथाविहितं प्रत्ययो भवति ।
भद्रबाहुणा प्रोक्तानि भाद्रबाहवाणि उत्तराध्ययनानि । याज्ञवल्क्यानि ॥ ३४ ॥
'मौद'आदिभ्यः अण् । ३५ । एभ्यः तृतीयान्तेभ्यः प्रोक्ते अर्थे अण प्रत्ययो भवति ।
मौदेन प्रोक्तेन अध्येतारः मौदाः । पैष्पलादाः । 'मौद'आदयः प्रयोगगम्याः । 'अण्'अपवादबाधनार्थः योगः ।। ३५ ॥
'कठ'आदिभ्यः वेदे श्लुक् । ३६ । एभ्यः प्रोक्ते यः प्रत्ययः तस्य लुक् भवति, स चेत् प्रोक्ते वेदे स्यात् ।
कठेन प्रोक्तस्य वेदस्य बोद्धारः अध्येतारो वा कठाः । चरकाः । वेदे इति किम् ? चरकेण प्रोक्ताः चारकाः श्लोकाः । 'कठ'आदयः प्रयोगगम्याः ॥ ३६॥
वरतन्तु-तित्तिरि-खण्डिक-उखात् ईयण् । ३७ । एभ्यः तृतीयान्तेभ्यः प्रोक्ते वेदे अर्थे ईयण प्रत्ययो भवति ।
वरतन्तुना प्रोक्तस्य बोद्धारः अध्येतारो वा वारतन्तवीयाः । तैत्तिरीयाः । खाण्डिकीयाः । औखीयाः । वेदे इति किम् ? तित्तिरिणा प्रोक्ताः तैत्तिराः श्लोकाः ॥ ३७ ।।
छगलिन: एयिनण् । ३८ । अस्मात् तृतीयान्तात् प्रोक्ते वेदे एयिनण प्रत्ययो भवति । छगलिना प्रोक्तस्य वेदस्य बोद्धारः अध्येतारो वा छागलेयिनः ॥ ३८ ॥
__. 'शौनक'आदिभ्यः णिन् । ३९ । एभ्यः तृतीयान्तेभ्यः प्रोक्ते वेदे अर्थे जिन् प्रत्ययो भवति ।
शौनकेन प्रोक्तस्य वेदस्य बोद्धारः अध्येतारो वा शौनकिनः । साङ्गरविणः । वेदे इति किम् ? शौनकीया शिक्षा । शौनक साङ्गरव वाजसनेय शापय स्कन्ध स्कम्भ रजभार रज्जुकण्ठ कठ शाठ पुरुषांशक हरिद्रू उत्वेक उलुप कमल आरण खाडायन इयादि ॥३९॥
पुराणे कल्पे । ४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org