________________
तद्धिते दशमः पादः
[४११ गौण-मुख्यम् ॥ २७॥
'इन्द्रजनन'आदिभ्यः । २८ । एभ्यः 'अम्'अन्तेभ्यः अधिकृत्य कृते ग्रन्थे अर्थे 'ईय'प्रत्ययो भवति ।
इन्द्रस्य जननम् इन्द्रजननम् तद् अधिकृत्य कृतम् काव्यम् इन्द्रजननीयम् । सीताहरणीयम् । 'इन्द्रजनन'आदयः प्रयोगगम्याः ॥ २८ ॥
टः इति तृतीयान्तात् कृते ग्रन्थे अर्थे यथाविहितं प्रत्ययो भवति । दैववाचकम् नन्यध्ययनम् । सिद्धसेनीयः स्तवः ॥२९ ।।
नाम्नि । ३० । 'ग्रन्थे' इति निवृत्तम् । टः इति तृतीयान्तात् कृते अर्थे यथाविहितं प्रत्ययो भवति, प्रत्ययान्तं चेत् कस्यचित् नाम स्यात् ।
मक्षिकाभिः कृतम् माक्षिकम् , भ्रामरम् मधु । नाम्नि इति किम् ? मक्षिकाभिः कृतम् शकृत् ॥ ३० ॥
'कुलाल'आदेः वुञ् । ३१ । एभ्यः तृतीयान्तेभ्यः कृते अर्थे वुञ् प्रत्ययो भवति नाम्नि ।
कुलालेन कृतम् घट-घटी-शराव-उदञ्चनादि भाण्डम् एव कौलालकम् न अन्यत् । सूर्प-पिटक-पिटलिका-पच्छिकादि वारुडकम् न अन्यत् ॥ ३१ ॥
छन्दस्य-उरस्य-औरस-सर्वचर्मीण-सार्वचर्मीणाः । ३२ । एते कृते अर्थे नाम्नि 'य'आदिप्रत्ययान्ता निपात्यन्ते ।
छन्दसा इच्छया कृतः ग्रन्थः न तु प्रवचनेन 'गायत्री'आदिना वा छन्दस्यः । उरसा निर्मितः उरस्यः, एवम् औरसः । अत्र य-अणौ । सर्वचर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः । अत्र ईन-ईनौ ॥ ३२ ॥.
उपज्ञाते । ३३ । टः इति तृतीयान्तात् उपज्ञाते अर्थे यथाविहितं प्रत्ययो भवति । पाणिनिना उपज्ञातम् पाणिनीयम् ॥ ३३ ॥ १. “वारुटकम्' हैम- ६।३।१९४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org