________________
४१०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम्
गोत्रवाचिभ्यः क्षत्रियवाचिभ्यः 'अम्'अन्तेभ्यः 'भजति'अर्थे प्रायः वुञ् भवति । ग्लुचुकायनि भजति ग्लौचुकायनकः । गार्गकः । गाायणकः ।।
क्षत्रिय-नाकुलकः । साहदेवकः । प्रायः इति किम् ? पाणिनि भजति पाणिनीयः ॥ २३ ॥
सरूपात् द्रेः रा व सर्वम् । २४ । _ 'राष्ट-राज ] इत्यादिना यः द्रिः अभिधास्यते तदन्तस्य 'अम्'अन्तस्य 'भजति'अर्थे राष्ट्रवत् सर्वम्-प्रकृतिः प्रत्ययश्च भवति । राष्ट्रवाचिनी या प्रकृतिः 'वृजि' इत्यादिका ततः प्रत्ययः 'वृजि-मद्राद् देशात् कः' [तद्धिते दशमपादे सूत्र २३ ] इत्यादिना विहितः तद् उभयम् दिसंज्ञान्तस्य अस्मिन् विषये भवति इत्यर्थः ।
वाय॑म् वाज्या वृजीन् वा भजति वृजिकः । पाण्ड्यम् , पाण्डकः । आङ्गकः । 'बहुविषयेभ्यः' [तद्धिते दशमे पादे सू० २९] इति वुञ् । कौरवकः । 'कुरु-युगन्धरात् वा' [तद्धिते दशमे पादे सू० ३२] इति वा वुञ् । सरूपात् इति किम् ? पुरुः नाम राजा अनुखण्डो जनपदः इति सारूप्यं नास्ति । द्रेः इति किम् ? पञ्चालान् भजति पाञ्चालः । 'सर्व'ग्रहणम् प्रकृतिअतिदेशार्थम् ॥ २४ ॥
___ अधिकृत्य ग्रन्थे । २५ । 'अम्'अन्तात् अधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्ययो भवति ।
सुभद्राम् अधिकृत्य कृतः ग्रन्थः सौभद्रः । ग्रन्थे इति किम् ? सुभद्राम् अधिकृत्य कृतः प्रासादः । भुवनसुन्दरीम् अधिकृत्य कृता कथा भुवनसुन्दरी । बलिबन्धनम् सीताहरणम् इति उपचारात् ग्रन्थे ताच्छब्दयम् ॥ २५ ॥
ज्योतिषम् । २६ । 'ज्योतिः'शब्दात् 'अम्'अन्तात् अधिकृत्य कृते ग्रन्थे अर्थे 'अण्प्रत्ययः औत्वाभावश्च निपात्यते । ज्योतींषि अधिकृत्य कृतः ग्रन्थः ज्योतिषम् ।। २६ ॥
द्वन्द्वात् ईयः प्रायः । २७ । द्वन्द्वात् समासात् 'अम्'अन्तात् अधिकृत्य कृते ग्रन्थे अर्थे प्रायः 'ईय'प्रत्ययो भवति । वाक्य-पदीयम् । द्रव्य-पर्यायीयम् । प्रायः इति किम् ? दैवा-ऽसुरम् । राक्षो-ऽसुरेम् ।
१. राक्षोऽसुरम्-काशिका-४।३।१२५। हैम- ६।३।२०१। अनेन उदाहरणेन रक्षांसिराक्षसाः असुराश्च भिन्नाः इति प्रतीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org