________________
इति 'सण्डिक' आदि: । सैन्धवः । वार्णवः ।
तद्धिते दशमः पादः
सिन्धु वर्णु मधुमत् कम्बोज शल्व गन्धार केस्मीर किष्किन्ध गदिक उरष्ण शरत् ग्रामणी इति 'सिन्धु' आदिः ॥ १६ ॥
अत्राजीवे अद्रेः ईयः । १७ ।
अद्रिः यः आभिजनः निवासः तद्वाचिनः प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे अस्त्राssजीवे 'ई' प्रत्ययो भवति ।
गोलः पर्वतः आभिजनः निवासः अस्य हगोलीयः अस्त्राजीवः । अद्रेः इति किम् ? सांकाश्यकः अत्राजीवः ॥ १७ ॥
शलातुरात् इयण् । १८ ।
अस्मात् आभिजननिवासवाचिनः 'अस्य' इति षष्ठ्यर्थे ईयण् प्रत्ययो भवति । शालातुरीयः ॥ १८ ॥
माहाराजिकः ॥ २१ ॥
[ ४०९
अमः भजति । १९ ।
'अम्' अन्तात् 'भजति' अर्थे यथाविहितं प्रत्ययो भवति ।
सुनं भजति स्रौघ्नः । राष्ट्रियः ॥ १९ ॥
वासुदेव-अर्जुनात् वुच् । २० । आभ्याम् ‘अम्’अन्ताभ्याम् 'भजति' अर्थे वुच् प्रत्ययो भवति । वासुदेवकः । अर्जुनकः । वासुदेवीं भजति वासुदेवकः || २० || महाराजात् इकण् । २१ ।
अस्मात् 'अम्'अन्तात् 'भजति' अर्थे इकण् प्रत्ययो भवति ।
Jain Education International
अचित्तात् अदेश-कालात् । २२ ।
देश - कालवर्जितम् यद् अचित्तम् तद्वाचिनः 'अम्' अन्तात् 'भजति 'अर्थे इकण प्रत्ययो भवति ।
मौदकिकः । अदेश - कालात् इति किम् ? स्रौघ्नः । पूर्वाह्णेतनः ॥ २२ ॥
गोत्र-क्षत्रियेभ्यः प्रायः वुञ् । २३ ।
१. "कश्मीर" इति हैमम् - ६।३।२१६ | काशिका - ४१३।९३। २. “सालातुरीयः पाणिनिः” - हैमम् - ६।३।२१७ | " शालातुरीयः" इति काशिका - ४ | ३ |९४।
५२
For Private & Personal Use Only
www.jainelibrary.org