________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम्
लोम्नः अपत्येषु । ११ ।
'लोमन्नू' शब्दात् अपत्येषु बहुषु अत् प्रत्ययो भवति ।
उडुलोम्नः अपत्यानि औडुलोमाः । अपत्येषु इति बहुवचनम् किम् ? औडुलोमिः । औलोमी ॥ ११ ॥
द्विगोः अलुचः अनपत्ये 'य' - 'स्वर' आदेः श्लुकू । १२ ।
द्विगो: 'अलुग्' अन्तात् आकचितीये अर्थे अपत्यवर्जिते विहितस्य 'यकार' आदेः 'स्वर' आदेश्व प्रत्ययस्य लुक् भवति ।
-४०८ ]
द्वयोः रथयोः, द्विरथ्याः वा अयम् द्रिरथः वोढा । पञ्चसु कपालेषु पञ्चकपाल्यां वा संस्कृतम् पश्ञ्चकपालम् । द्वयोः अनुयोगयोः, द्व्यनुयोगीं वा अध्येता द्वनुयोगः । द्विगोः इति किम् ? कैलासाः । अलुचः इति किम् ? पञ्चसु कपालेषु संस्कृतम् पञ्चकपालम् तस्य इदम् पाञ्चकपालम् | 'य' - 'स्वर' आदेः इति किम् ? पञ्चगर्गमयम् ॥ १२ ॥ सेः निवासात् अस्य । १३ ।
से: प्रथमान्तात् निवासवाचिनः 'अस्य' इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति । निवसन्ति अस्मिन् इति निवासः ।
स्रुघ्नः निवासः अस्य स्रौघ्नः । राष्ट्रियः ॥ १३ ॥
अभिजनात् । १४ ।
अभिजनाः पूर्वबान्धवाः तत्संबन्धी यः निवासः तद्वाचिनः प्रथमान्तात् 'अस्य' इति यथाविहितं प्रत्ययो भवति ।
सुन्नः अस्य आभिजनः निवासः स्रौघ्नः । राष्ट्रियः ॥
Jain Education International
१४ ॥
तूदी - वर्मतीभ्याम् एयण् । १५ ।
आभ्याम् आभिजननिवासवाचिभ्याम् 'अस्य' इति षष्ठ्यर्थे एयण प्रत्ययो भवति । तौदेयः । वार्मतेयः ॥ १५ ॥
'सण्डिक'- 'सिन्धु' आदिभ्याम् ण्य- अणौ । १६ ।
'सण्डिक’आदिभ्यः 'सिन्धु' आदिभ्यश्च आभिजननिवासवाचिभ्यः 'अस्य' इति षष्ठ्यर्थे यथासंख्यम् ‘ण्य’- ' अण्' प्रत्ययौ भवतः ।
साण्डिक्यः । कौचवार्यः । सण्डिक कूचवार सर्वसेन सर्वकेश चणक शङ्ख सोध १. " शाण्डिक्यः" इति हैमम् - ६।३।१५। काशिका - ४।३।९२।
For Private & Personal Use Only
www.jainelibrary.org