SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ तद्धिते एकादशः पादः [ ४०७ आभ्याम् आकचितीये अर्थे, 'अण्' अपवादे च अस्वे एयण् प्रत्ययो भवति । कौ भवम् कालेयम् । कलिः देवता अस्य कालेयम् । आग्नेयम् । कले: आगतम् कालेयम् । आग्नेयम् ॥ ५ ॥ पृथिव्या ञ-अत्रौ । ६। 'पृथिवी' शब्दात् आकचितीये अर्थे, 'अणू' अपवादे च अस्वे 'ञ -अञ्' प्रत्ययौ भवतः । पृथिव्यां भवः पार्थिवः । पार्थिवा । पार्थिवी ॥ ६ ॥ 'उत्स' आदेः अञ् । ७ । ‘उत्स’आदेः आकचितीये अर्थे 'अण्' अपवादविषये च अस्वे अञ् प्रत्ययो भवति । उत्सस्य इदम् औत्सम् । औदपानम् | 'बष्कय' शब्दस्य उत्तरेण [ अष्टमेन सूत्रेण ] समासे प्रतिषेधात् इह 'उत्स' आदिअन्तस्य अपि प्रत्ययेः । उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन धेनु पङ्क्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलुकण वृषदंश भल्लकीय रथन्तर मध्यंदिन बृहत् महत् महिमन् कुरु पञ्चाल इन्द्रावसान उष्णिहू ककुभ् सुवर्ण इति 'उत्स' आदिः ॥ ७ ॥ बष्कयात् असमासे । ८ । ‘बष्क्रय’शब्दात् आकचितीये अर्थे, 'अण्' अपवादे च अस्वे असमासे अञ् प्रत्ययो भवति । बष्कयस्य अपत्यम् बाष्कयः । असमासे इति किम् ? सुबष्कयस्य अपत्यम् सौबष्कयः ॥ ८ ॥ Jain Education International देवात् यञ् च । ९ । ‘देव’शब्दात् आकचितीये अर्थे 'अणू' अपवादे च यञ्-अत्रौ वा भवतः । दैव्यम् । दैवम् । दैवी वाक् ॥ ९ ॥ 1 स्थाम्नः अत् । १० । 'स्थामन्’शब्दअन्तात् आक्कचितीये अर्थे अकारप्रत्ययो भवति । अश्वत्थाम्नः अपत्यम् अश्वत्थामः ॥ १० ॥ १. 'गोधेनुभ्यः आगतं गौधेनवम्' - २१४।१०। शा० अ० । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy