SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ तद्धिते एकादशः पादः आ क्वचितः अण । १। 'क्वचित् शब्दम् अभिव्याप्य ये अर्था वक्ष्यन्ते तेषु अण् प्रत्ययो भवति वा । अधिकारः परिभाषा विधिः वा अयम्, पक्षत्रयेऽपि अपवादविषयं परिहृत्य वर्तते ।। उपगोः अपत्यम् औपगवः । भिक्षाणाम् समूहः भैक्षम् । कषायेण रक्तम् काषायम् ॥ १॥ 'राष्ट्र'आदेः पत्युः।२।। 'राष्ट्र'आदिभ्यः परः यः 'पति'शब्दः तदन्तात् 'राष्ट्रपति'आदेः आकचितीये अर्थे अण् प्रत्ययो वा भवति । 'ज्य'अपवादः । ___ राष्ट्रपतेः इदम् राष्ट्रपतम् । धनपतेः अपत्यम् धानपतम् । राष्ट्र धन अश्व शत गण क्षेत्र कुशल गृह पशु सभा धन्वन् धान्य इति 'राष्ट्र'आदिः ॥ २ ॥ 'पति'उत्तरपद-यम-आदित्य-दिति-अदितेः ज्यः 'अण' अपवादे च अस्वे । ३। 'पति'शब्दउत्तरपदात् 'यम'आदिभ्यश्च आकचितीये अर्थे, स्ववर्जिते यः ‘अण्'अपवादः तद्विषये च भ्यः प्रत्ययो भवति । बृहस्पतिः देवता अस्य बार्हस्पत्यम् । एवम् याम्यम् । आदित्य-आदित्य्यम् । दिति-दैत्यम् । अदिति-आदित्यम् । बार्हस्पत्यः । प्राजापत्यम् । याम्यम् । आदित्यः । अत्र 'अतः' [ ] इति इञ् न भवति । अण्ग्रहणं किम् ? वास्तोष्पत्यभार्यः । असति 'अण'ग्रहणे 'स्व'अपवादविषयेऽपि अस्य समावेशः स्यात् ततः 'न तद्धितः स्वरवृद्धिहेतुः' [ ] इति पुंभावनिषेधात् आकारः अपि श्रूयते-वास्तोष्पत्याभार्यः इति । अस्ते इति किम् ? उष्टपतिः नाम वाहनम् तस्य स्वम् औष्ट्रपतम् , 'वाहनात्' [ ] इति अञ् ॥ ३ ॥ बहिषः टीकण च । ४। 'बहिष'शब्दात् आक्वचितीये अर्थे टीकण् ञ्यश्च प्रत्ययो भवति । बाहीकः, बाह्यः ॥ ४ ॥ कलि-अग्नेः एयण् । ५। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy