________________
तद्धिते दशमः पादः
[५०५ मध्यात् मः । ९१ । 'मध्य'शब्दात् 'भव'आदौ अर्थे 'म'प्रत्ययो भवति । मध्यमम् ॥ ९१ ॥
उत्कर्ष-अपकर्षयोः । ९२ । उत्कर्ष-अपकर्षयोः यत् मध्यम् तत्र प्रवर्तमानात् ‘मध्य'शब्दात् 'भव'आदौ अर्थे 'अ'अत्ययो भवति ।
न अतिउत्कृष्टः न अतिअपकृष्टः मध्यपरिमाणः मध्यः वैयाकरणः । मध्याः गुणाः । मध्या स्त्री। अवस्था-अवस्थावतोः भेदविवक्षायाम् अवस्था प्रकृत्यर्थः अवस्थाता प्रत्ययार्थः इति मः प्राप्नोति इति वचनम् ।। ९२ ।। युष्मद्-अस्मदोः वा अन्-खौ युष्माक-अस्माकम् एकस्मिन्
तवक-ममकम् । ९३ । युष्मद्-अस्मद्भ्याम् 'भव'आदौ अर्थे अञ्-खौ भवतः तद्योगे च यथासंख्यम् 'युष्माक'-'अस्माक'आदेशः, एकत्वे तु तयोः 'तवक'-'ममक आदेशः ।
__ यौष्माकः । आस्माकः। यौष्माकीगः । आस्माकीनः । एकत्वे तावकः । मामकः । तावकीनः । मामकीनः । पक्षे युष्मदीयः । अस्मदीयः । त्वदीयः । मदीयः ॥ ९३ ॥
'स्थाम'-अजिन'अन्तात् श्लुक । ९४ । 'स्थाम'अन्तात् 'अजिन'अन्तात् च परस्य 'भव'आदौ अर्थे उत्पन्नस्य प्रत्ययस्य 'लुक् भवति ।
अश्वत्थामा । सिंहाजिनः । वृकाजिनः ॥ ९४ ॥ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्धिते दशमः पादः समाप्तः ।।
१ '-परिणामो मध्यः" इति शाक. ३१११८२॥ २. 'अश्वत्थाम्नो जातः भवः वा अश्वत्थामा" ।३।११८३। शा० अ० । ३. 'सिंहाजिने भवः जातो वा सिंहाजिनः" ।६।३।९३। सिद्ध बृ. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org