________________
आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'ऊर्ध्व' शब्दात् पराभ्याम् 'दम' - 'देह' शब्दाभ्याम् ' भव' आदौ अर्थे इकण् प्रत्ययो भवति, 'ऊर्ध्व' शब्दस्य मक् आगमः वा ।
और्ध्वदमिकः, और्ध्वदमिकः । और्ध्वदेहिकः, और्ध्वदेहिकः ॥ ७३ ॥
४०२ ]
'समान' पूर्वात् 'लोक' उत्तरपद- 'अध्यात्म' आदिभ्यः । ७४ ।
'समान' शब्दपूर्वात् नाम्नः, 'लोक' उत्तरपदेभ्यः, 'अध्यात्म' आदिभ्यश्व 'भव' आदौ प्रत्ययो भवति ।
समानग्रामे भवः कृतः वा सामानग्रामिकः । सामानदेशिकः । इह लोके भवः ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । आध्यात्मिकम् । आधिदैविकम् । सामानि - कम् । ऐहिकम् | आमुष्मिकम् । इत्यादयः ॥ ७४ ॥
वर्षा-कालेभ्यः । ७५ ।
'वर्षा' शब्दात् कालविशेषवाचिभ्यश्व 'भव' आदौ अर्थे इकण् प्रत्ययो भवति । वार्षिकः । कालेभ्यः - मासिकः । निशासहचरितम् अध्ययनम् निशा तत्र भवं नैशिकम् । कदम्बपुष्पसहचरितः कालः कदम्बपुष्पम् तत्र देयम् कादम्बपुष्पिकम् ऋणम् । बहुवचनम् यथाकथंचित् कालवृत्तेः प्रापणार्थम् ।
" 'काल' शब्दात् च कालार्थात् अकालार्थात् च कालतः । कालात् अपि कालार्थात् कालेभ्यः इति यो विधिः । "
Jain Education International
[ शाक० ३।१।६६ ]
'वर्षा' ग्रहणम् ऋतु'अणू'बाधनार्थम् || ७५ || शरदः श्राद्धे कर्मणि । ७६ ।
'शरत्' शब्दात् कालवाचिनः 'भव'आदौ श्राद्धे कर्मणि इकण् प्रत्ययो भवति । शारदिकम् श्राद्ध कर्म । श्राद्धे इति किम् ? शारदं विरेचनम् ॥ ७६ ॥
रोग आतपे वा । ७७ ।
'शरत्' शब्दात् कालवाचिनः 'भव' आदौ अर्थे रोगे आतपे वा इकणू वा भवति । शारदिकः शारदः वा रोगः आतपो वा । रोग-आतपे इति किम् ? शारदं दधि ॥ ७७ ॥
१. “सकालादपि " - शाक० । हेमचन्द्रस्तु श्रीमलयगिरिवत् एनमेव श्लोकम् निर्दिशति - ६।३१८०१
For Private & Personal Use Only
www.jainelibrary.org