________________
तद्धिते दशमः पादः
[४०१ कापिश्यायनः । और्दायनः । पार्दायनः । वाल्हायनः । टकारः ङ्यर्थः--कापिशायनी द्राक्षा ॥ ६५ ॥
. रङ्कोः प्राणिनि वा । ६६ । 'रङ्कु'शब्दात् 'भव'आदौ प्राणिनि अथ आयनणट् प्रत्ययो भवति । राङ्कवायणो गौः । प्राणिनि इति किम् ? राङ्कवः कम्बलः ।। ६६ ॥
यः अर्धात् । ६७। 'अर्ध'शब्दात् 'भव'आदौ अर्थे 'य'प्रत्ययो भवति । अर्यम् ॥ ६७ ॥
सादेः इकण । ६८ । सपूर्वशब्दात् 'अर्ध'शब्दात् ‘भव'आदौ अर्थ इकण् प्रत्ययो भवति । पौष्करार्धिकः । वैजयार्धिकः ॥ ६८ ॥
'दिग्'आदेः तौ । ६९ । 'दिक्'पूर्वात् 'अर्ध'शब्दात् 'भव'आदौ अर्थे तौ 'इकण्'-'य'प्रत्ययो भवतः । पौर्वार्धिकम्, पूर्वाय॑म् ।। ६९ ॥
'पर'-अवर'-'अधम'-उत्तम आदेः यः। ७० । 'पर'आदिपूर्वात् 'अर्थ'शब्दात् 'भव'आदौ अर्थे 'य'प्रत्ययो भवति । पराय॑म् । अवराय॑म् । अधमार्यम् । उत्तमार्यम् ॥ ७० ॥
ग्राम-राष्टस्य अण । ७१। ग्रामस्य राष्टस्य च यः एकदेशवाची 'अर्ध'शब्दः तदन्तात् 'भव'आदौ अर्थे अण् प्रत्ययो भवति । ग्रामस्य राष्ट्रस्य वा पौर्वार्धः ॥ ७१ ॥
इकण । ७२ । ग्रामस्य राष्ट्रस्य वा एकदेशवाचिनः 'अर्ध'शब्दान्तात् 'दिक्'पूर्वात् 'भव'आदौ अर्थे इकण प्रत्ययो भवति । ___ ग्रामस्य राष्ट्रस्य वा पौर्वार्धिकः ॥ ७२ ॥
ऊर्ध्वात् दम-देहात् इकण मक् च ऊर्ध्वस्य वा । ७३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org