________________
४००] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'प्राक्षु-चैकीयाः । पौष्पीयाः । भरतेषु--काशीयाः । द्विस्वरात् इति किम् ? पानागाराः । मान्थरेषणाः । प्राग्-भरतेषु इति किम् ? दाक्षाः । 'प्राग्'ग्रहणे भरतानां न ग्रहणम् इति 'भरत'ग्रहणम् ॥ ५८॥
दूरात् एत्यः । ५९ । 'दूर'शब्दात् 'भव'आदौ अर्थे 'एत्य'प्रत्ययो भवति । दूरेत्यः ॥ ५९॥
उत्तरात् आह । ६०। 'उत्तर'शब्दात् 'भव'आदौ अर्थे 'आह'प्रत्ययो भवति । औत्तराहः। औत्तराहा । 'औत्तराही' इति 'उत्तराह'शब्दात् 'भव'अर्थे अणि ॥६०॥
पार-अवार-अवार-पारेभ्यः ईनः । ६१ । एभ्यः ‘भव'आदौ अर्थे 'ईन'प्रत्ययो भवति । पारीणः । अवारीणः । पारावारीणः । अवारपारीणः ॥ ६१ ॥
प्राग्-अपाग-उदक्-प्रतीग-द्युभ्यः यः । ६२ । 'प्राग्'आदिभ्यः ‘भव'आदौ अर्थे 'य'प्रत्ययो भवति ।
प्राच्यः । अपाच्यः । उदीच्यः । प्रतीच्यः । दिव्यः । कालवाचिनस्तु अव्ययात् परत्वात् तनट-प्राक्तनम् ।। ६२ ॥
कन्थाया इकण् ॥ ६३ ॥ 'कन्था'शब्दात् 'भव'आदौ अर्थे इकण् प्रत्ययो भवति । कान्थिकः ।। ६३॥
वर्णी वुभ् । ६४। 'वणु'नदसमीपो वर्णः, तद्विषयात् 'कन्था'शब्दात् 'भव'आदौ अर्थे वुञ् प्रत्ययो भवति । कान्थकः ॥ ६४ ॥
कोपिश्य-ऊर्दि-पर्दि-वल्हेः आयनणट् । ६५ । 'कापिश्य'आदिभ्यः 'भव'आदौ अर्थे आयनणट् प्रत्ययो भवति ।
१. “कापिश्याः फक्”-काशिका ४।२।९९। हैमेऽपि “कापिश्याः" ६।३।११॥ एतयोः 'कापिशी'शन्दो विवक्षितः । अत्र शाकटायने च 'कापिश्य'शन्दो विवक्षितः-शाक. ३११४ "कपिशा मर्कटा अत्र सन्ति कापिशी अटवी"-हैमम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org