SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ तद्धिते दशमः पादः [ ३९९ 'दिग्'आदेः अनाम्नः । ५२ । 'दिक् पूर्वपदात् अनाम्नः ‘भव आदौ अर्थे णो भवति । पौर्वशालः । अनाम्नः इति किम् ? पूर्वेषुकामशमी । अपरेषुकामशमी ॥ ५२ ॥ ___ मद्रात् अञ् । ५३। 'दिक्'पूर्वपदात् 'मद्र'शब्दात् 'भव'आदौ अर्थे अञ् प्रत्ययो भवति । पौर्वमद्रः ॥ ५३॥ उदग्ग्रामात् यकृल्लोम्नः । ६४। उदग्ग्रामवाचिनः ‘यकृल्लोमन्'शब्दात् 'भव'आदौ अर्थे अञ् प्रत्ययो भवति । याकृल्लोमः । उदग्ग्रामात् इति किम् ? अन्यस्मात् अण् एव-याकृल्लोमनः ॥५४॥ गोष्ठी-तैकी-गोमती-शरसेन-वाहीकात् । ५५ । एभ्यः ‘भव'आदौ अर्थे अञ् प्रत्ययो भवति । गौष्ठः । तैकः । गौमतः । शौरसेनः । वाहीकः ॥ ५५ ॥ 'शकल'आदेः वृद्धे । ५६ । एभ्यः वृद्धप्रत्ययान्तेभ्यः ‘भव'आदौ अर्थे अञ् प्रत्ययो भवति । 'शकल'आदिः गर्गादिअन्तर्गणः । शकलस्य अपत्यम् वृद्धम् शाकल्यः तस्य छात्राः शाकलाः । काण्ठाः इत्यादि । वृद्ध इति किम् ? शकल: देवता अस्य शाकलः तस्य इदम् शाकलीयम् ।। ५६ ॥ वृद्धे यः इञ् तदन्तात् 'भव'आदौ अर्थे अञ् प्रत्ययो भवति । दक्षस्य अपत्यम् वृद्धम् दाक्षिः तस्य छात्राः दाक्षाः । वृद्ध इति किम् ? सुतंगमेन निर्वृत्ता सौतंगमिः तत्र भवम् सौतंगमीयम् । औपगवेः यूनः छात्रा: औपगवीयाः । शालङ्कायनेः छात्राः शालङ्काः इत्यत्र 'पैल'आदिपाठात् आयनणि लुप्ते यद्यपि 'इ'अन्तं यूनि वर्तते तथापि “इञ् वृद्धे" [ ] इति अञ् प्रत्ययो भवति ।। ५७ ॥ न द्विस्वरात् प्राग्-भरतेषु । ५८ । प्राच्यगोत्रे भरतगोत्रे च यद् वर्तते द्विस्वरम् वृद्ध'इ'अन्तम् तस्मात् अञ् प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy