________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
__ अनरि वा । ४५। 'पर्वत'शब्दात् 'भव'आदौ अर्थे अनरि 'ईय'प्रत्ययो वा भवति । पर्वतीयम् , पार्वतम् उदकम् ॥ ४५ ॥
पर्ण-कृकणात् भारद्वाजात् । ४६ । 'पर्ण'-'कृकण'शब्दाभ्याम् भारद्वाजदेशवाचिभ्याम् ‘भव'आदौ अर्थे 'ईय'प्रत्ययो भवति । पर्णीयः । कृकणीयः । भारद्वाजात् इति किम् ? पार्णः । कार्कणः ॥ ४६॥
'कट'आदेः प्राचः । ४७। 'कट'पूर्वपदात् 'प्राग्'देशवाचिन: ‘भव'आदौ अर्थे 'ईय'प्रत्ययो भवति ।
कटनगरीयः ॥ ४७ ॥ दोः 'कन्था'-'पलद'-'नगर'-'ग्राम'-हूद'उत्तरपद-'क'-'ख'-उपान्त्यात् ।४८।
'कन्था आदिउत्तरपदात् 'क'कारउपान्त्यात् 'ख'कारउपान्त्यात् च 'दु'संज्ञकात् देशवाचिनः ‘भव'आदौ अर्थे 'ईय'प्रत्ययो भवति ।
दाक्षिकन्थीयः । दाक्षिपलदीयः । दाक्षिनगरीयः । दाक्षिग्रामीयः । दाक्षिहदीयः । आरोहणकीयः । कौटिशिखीयः । दोः इति किम् ? आर्षिकः ॥ ४८ ॥
'गत उत्तरपदात् । ४९। अस्मात् देशवाचिनः 'भव'आदौ अर्थे 'ईय'प्रत्ययो भवति । वृकगीयः । शगालगीयः ॥ ४९ ॥
. स्व-पर-जन-देव-राज्ञः अकीयः । ५० । एभ्यः 'भव'आदौ 'अकीय'प्रत्ययो भवति । स्वकीयः । परकीयः । जनकीयः । देवकीयः । राजकीयः ॥ ५० ॥
'रूप्य'उत्तरपद-अरण्यात् णः । ५१। 'रूप्य'उत्तरपदात् अरण्यात् च 'भव'आदौं अर्थे 'ण'प्रत्ययो भवति । वार्करूप्यः । आरण्याः पशवः ॥ ५१ ॥ १. "जन-पर-राज्ञः अकछः" ।।१।२५। शा. चि० । “अकारः पुंभावार्थः” । “इह
केचित् 'स्व'-देव'ग्रहणम् इच्छन्ति-" शा. चि.। अत्र श्रीमलयगिरिः न शाकटायनम् अनुसरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org