________________
तद्धिते दशमः पादः
[ ३९७ 'कच्छ'आदेः नृ-नृस्थे । ३९ । 'कच्छ'आदिभ्यः ‘भव'आदौ अर्थे नरि नृस्थे च वुञ् प्रत्ययो भवति ।
काच्छकः मनुष्यः। काच्छकम् अस्य हसितम् । कच्छ सिन्धु वर्ण मधुमत् कम्बोज साल्व कुमुषण्ड काश्मीर विजापक द्वीप अनूप अजवाह कुलूत रङ्क इति 'कच्छ' आदिः ॥ ३९ ॥
'क'उपान्त्यात् च अण् । ४० । 'क'उपान्त्यात् कच्छादेश्च भव'आदौ अर्थे अण् प्रत्ययो भवति । ऋषिकः जनपदः तत्र भवः आर्षकः । माहिषकः । कच्छादि-काच्छः। सैन्धवः॥४०॥ पृथिवीमध्यात् निवासात् चरणे मध्यमश्च अस्य । ४१ ।
पृथिवीमध्यात् निवासभूतात् देशात् 'भव'आदौ चरणे निवस्तरि वाच्ये अण प्रत्ययो भवति, मध्यमश्च अस्य 'पृथिवीमध्य'शब्दस्य आदेशः ।
पृथिवीमध्यम् निवासः अस्य माध्यमः चरगः । निवासात् इति किम् ? पृथिवीमध्यात् आगतं चरणं मध्यमीयम् । चरणे इति किम् ? पृथिवीमध्यं निवासः अस्य चैत्रस्य मध्यमीयः चैत्रः ॥ ४१ ॥
ईयः । ४२। 'पृथिवीमध्यात् मध्यमश्चास्य' इति वर्तते, न 'निवासात् चरणे' इति । पृथिवीमध्यात् देशात् 'भव'आदौ अर्थे 'ईय'प्रत्ययो भवति । मध्यमश्च अस्य आदेशः । पृथिवीमध्ये भवः जातो वा मध्यमीयः ।। ४२ ॥ . .
— 'गह'आदिभ्यः । ४३ । 'गह'आदिभ्यः देशवाचिभ्यः ‘भव'आदौ अर्थे 'ईय'प्रत्ययो भवति ।
गहीयः। अन्तस्थीयः। गह गर्त अन्तस्थ विषम अङ्ग मगध शुक्लपक्ष पूर्वपक्ष अपरपक्ष अवमशाख एकग्राम एकवृक्ष एकपलाश इष्वग्र दन्ताग्र इष्वनीक अवस्यन्द कामप्रस्थ खाटायनि खोडेरणि लाबेरणि सैसरि सौङ्गि आसुरि आहिसि आमित्रि व्याडि भौजि आवेन्धि आश्वस्थि औद्गाहमानि औपबिन्दवि आग्निशर्मि वाचरिक वाल्मीकि क्षेमवृत्ति उत्तर अन्तर मुखतस् पार्श्वतस् एकतम् इति ‘गह'आदिः । बहुवचनम् आकृतिगगार्थम् ॥४३॥
पर्वतात् । ४४ । 'पर्वत'शब्दात् देशवाचिनः ‘भव'आदौ अर्थे 'ईय'प्रत्ययो भवति । पर्वतीयः ना । पर्वतीयः राजा ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org