________________
१९९] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'नगर'शब्दात् देशवाचिनः ‘भव'आदौ अर्थे वुञ प्रत्ययो भवति, प्रत्ययार्थस्य कुत्सायाम् दाक्ये च गम्यमाने । दाक्ष्यम्-नैपुण्यम् ।
केने मनुष्येण अयम् इह नगरे मुषितः ? संभाव्यते एतद् नागरके, चौरा हि नागरका भवन्ति । केनै मनुष्येण इदं चित्रं लिखितम् इह नगरे ? संभाव्यते एतद् नागरके, नागरका दक्षा भवन्ति । कुत्सा-दाक्ये इति किम् ? नागरः पुरुषः ।। ३३ ।।
समुद्रात् नृ-नावोः । ३४ । ‘समुद्र'शब्दात् देशवाचिनः ‘भव'आदौ नरि नावि च अर्थे वुञ् प्रत्ययो भवति । सामुद्रकः मनुष्यः। सामुद्रिका नौः। नृ-नावोः इति किम् ? सामुद्रं लवणम् ॥३४॥
सौवीरेषु कूलात् । ३५ । 'सौवीर देशवाचिनः 'कूल' शब्दात् 'भव'आदौ अर्थे वुञ् प्रत्ययो भवति । कोलकः । सौवीरेषु इति किम् ? कौलः अन्यत्र ॥ ३५ ॥
साल्वात् गो-यवागू-अपत्तौ । ३६ । 'साल्व'शब्दात् देशवाचिनः गवि यवाग्वाम् अपत्तौ च 'भव' आदौ अर्थे वुञ् प्रत्ययो भवति ।
साल्वकः गौः । साल्विका यवागूः । साल्वकः मनुष्यः । गो-यवागू-अपत्तौ इति किम् ? साल्वाः व्रीहयः । साल्वः पत्तिः ।। ३६ ॥
'धूम'आदेः। ३७। 'धूम'आदिभ्यः देशवाचिभ्यः ‘भव'आदौ अर्थ वुञ् प्रत्ययो भवति ।
धौमकः । षाडण्डकः । धूम षडण्ड षडाण्ड अर्जुनाव दाण्डायनस्थली घोषस्थली मानकस्थली राजगृह सत्रासह तक्षाली अञ्जीकुल दयाहाव त्र्याहाव संस्फीय चर्चड गर्त वर्य सकुन्ति विदेह दूर आराज्ञी अवया कुक्षि अन्तरीप अरुण उज्जयनी दक्षिणापथ साकेत इति 'घूम'आदिः ॥ ३७॥
'कच्छ'-'अग्नि'-'वक्त्र'-'वर्त'उत्तरपदात् । ३८ । 'कच्छ आदिउत्तरपदेभ्यः देशवाचिभ्यः 'भव'आदौ अर्थे वुञ् प्रत्ययो भवति ।
पैष्पलकच्छकः । काण्डाग्नकः । ऐन्दुवक्त्रकः । बाहुलवर्तकः । 'उत्तरपद'ग्रहणम् अ'बहु'पूर्वार्थम् -ईषत् असमाप्तः कच्छः बहुकच्छः तत्र भवः इति वुञ् न भवति ॥३८॥
१. "केनाऽयं मुषितः पन्थाः गात्रे पक्ष्मालिधूसरः"-४।२।१२८। काशिकायाम् एतत् पद्यम् २. "केनेदं लिखितं चित्रं मनोनेत्रविकाशि यत्"-एतदपि पद्यं तत्रैव ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org