________________
तद्धिते दशमः पादः
[ ३९५ 'वह'अन्तात् 'पुर अन्तात् 'प्रस्थ'अन्तात् 'य'उपान्त्यात् 'धन्व'वाचिनः च देशवाचिन: दुसंज्ञकात् 'भव'आदौ अर्थे वुञ्-अकञ्- प्रत्ययो भवति ।
पैलुवहकः । नान्दीपुरकः । मालाप्रस्थकः । कांस्यकः । पारेधन्वकः । आपारेधन्वकः । 'पुर ग्रहणम् अप्राच्यार्थम् । प्राच्यात् हि ० 'र'उपान्त्यात् [ पूर्वसूत्रम् २६ ] इत्येव सिद्धम् ॥ २७ ॥
राष्ट्रेभ्यः। २८ । राष्ट्रेभ्यः देशेभ्यः दुसंज्ञकेभ्यः भव'आदौ अर्थे वुञ् प्रत्ययो भवति ।
आभिसारकः । बहुवचनम् बुञः प्रकृतिबहुत्वं द्योतयत् अपवादविषयेऽपि प्रापणार्थम्-आभिसारगर्तकः, अत्र 'गर्त'उत्तरपदलक्षणः ईयः प्राप्नोति । राष्ट्रसमुदायः न राष्ट्रग्रहणेन गृह्यते इति इह न भवति-काशिकोशलीयः ॥ २८ ॥
बहुविषयेभ्यः । २९ । 'दोः' इति निवृत्तम् । राष्ट्रेभ्यः बहुविषयेभ्यः ‘भव'आदी अर्थे वुञ् प्रत्ययो भवति ।
अङ्गेषु भवः आङ्गकः । बाङ्गकः । विषयग्रहणम् अनन्यत्रभावार्थम् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः तत्र भवः वर्तनः । बहुवचनम् अपवादविषयेऽपि प्रापणार्थम्त्रैगर्तकः । अदु'अर्थ वचनम् , दोः तु पूर्वेण सिद्धम् ॥ २९ ॥
अरण्यात् पथि-अध्याय-न्याय-विहार-इभ-नरे । ३० ।
'अरण्य'शब्दात् देशवाचिनः 'भव' आदौ अर्थे 'पथि'आदौ वाच्ये वुञ् प्रत्ययो भवति ।
आरण्यकः पन्थाः अध्यायः न्यायः विहारः हस्ती नरः वा । 'पथि'आदौ इति किम् ? आरण्याः सुमनसः ॥ ३० ॥
गोमये वा । ३१ । 'अरण्य'शब्दात् देशवाचिनः 'भव'आदौ अर्थे गोमये वुञ् प्रत्ययो वा भवति । आरण्यकः आरण्यः वा गोमयः ॥ ३१ ॥
कुरु-युगन्धरात् । ३२। आभ्याम् देशवाचिभ्याम् 'भव'आदौ अर्थे वुन प्रत्ययो वा भवति । कौरवकः, कौरवः । यौगन्धरकः, यौगन्धरः ॥ ३२ ॥
नगरात् कुत्सा-दाक्ष्ये । ३३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org