________________
३९४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ग्रामीणः, ग्राम्यः । ग्रामीणाभार्यः । अकारः पुंभावप्रतिषेधार्थः ॥ २० ॥
'कत्रि आदेश्च एयकञ् । २१ । 'कत्रि'आदिभ्यः 'ग्राम'शब्दात् च 'भव'आदौ अर्थे एयकञ् प्रत्ययो भवति ।
कात्रेयकः । पौष्करेयकः । ग्रामेयकः। कत्रि पुष्कर पौदन कुण्डिना नगर महिष्मती इति 'कत्रि'आदिः ।। २१ ॥
'कुण्डया'आदेः यलुक् च । २२ । 'कुण्ड्या आदेः 'भव'आदौ अर्थे एयकञ् प्रत्ययो भवति, यकारस्य च लुक् ।
कौण्डेयकः । कुण्ड्या कुण्या उज्या भाण्ड्या ग्रामकुड्या तृण्या धन्या वल्या सुल्या इति 'कुण्ड्या 'आदिः ॥ २२ ॥
वृजि-मद्रात् देशात् कः । २३ । आभ्याम् देशवाचिभ्याम् ‘भव'आदौ अर्थे 'क' प्रत्ययो भवति । वृजिकः । मद्रकः । देशात् इति किम् ? मनुष्यवृत्तेः वार्जः । माद्रः ॥ २३ ॥
___ उवर्णात् इकण । २४ । ‘उवर्ण अन्तात् देशवाचिन: 'भव'आदौ अर्थे इकण प्रत्ययो भवति ।
निषादकवा॑म् भवः नैषादकर्षुकः । नापितवास्तुः-वाहीकग्रामः-तत्र भवः नापितवास्तुकः ।। २४ ॥
दोः एव प्राचः । २५ । प्राग्देशवाचिनः उवर्णान्तात् दुसंज्ञकात् एव 'भव'आदौ अर्थे इकण् प्रत्ययो भवति ।
आढकजम्बुकः । नापितवास्तुकः । पूर्वेण सिद्धे नियमार्थं वचनम् , तेन मल्लवास्तु प्राग्ग्रामः तत्र भवः माल्लवास्तवः । एवकारः इष्टनियमार्थः--दाः प्राचः एव इति मा भूत् ॥ २५ ॥
'ई'-'र'उपान्त्यात् अकञ् । २६। ईकारान्तात् 'र' उपान्त्यात् च प्रागदेशवाचिनः दुसंज्ञकात् अकञ् प्रत्ययो भवति ।
काकन्दी-काक्रन्दकः । माकन्दी-माकन्दकः । रेफोपान्त्यात्-पाटलिपुत्रकः । ऐकचक्रकः ॥ २६ ॥
_ 'वह'-'पुर'-प्रस्थ'अन्त-'य'उपान्त्य-धन्वनः । २७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org