SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ तद्धिते दशमः पादः [३९७ नादेयः । नदी मही वाराणसी कौशाम्बी वनवासी खादिरी पूर्वनगरी पावा मावा दार्वा सेतकी इति 'नदी'आदिः ।। १३ ॥ पश्चात्-पुरस्-दक्षिणातः त्यण् । १४ । एभ्यः 'भव'आदौ अर्थे त्यण प्रत्ययो भवति । पाश्चात्यः । पौरस्त्यः। दाक्षिणात्यः । 'पश्चात्'-'पुरस्'साहचर्यात् 'दक्षिणा' शब्दः अव्ययं गृह्यते ॥ १४ ॥ क-इह-अमा-तम्-त्रात् त्यच् । १५ । एभ्यः 'भव'आदौ अर्थे त्यच् प्रत्ययः भवति ।। कत्यः । इहत्यः । अमात्यः । कुतस्त्यः । तत्रत्यः । चकारः-'त्ये'-'यकात्' नामप्रकरणे षष्टपादे सूत्रम् ३६ ] इत्यत्र त्यण-त्यचोः सामान्यग्रहणार्थः ॥ १५ ॥ नेः ध्रुवे । १६ । 'नि'शब्दात् ध्रुवे 'भव'आदौ अर्थे त्यच् प्रत्ययो भवति । नियतं भवम् नित्यम् ॥ १६ ॥ निसः गते । १७ । 'निस्'शब्दात् गते अर्थे त्यच् प्रत्ययो भवति । निष्टयः ॥ १७ ॥ वा ऐषमस्-ह्यस्-श्वसः । १८ । एभ्यः ‘भव'आदौ अर्थे वा त्यच् प्रत्ययो भवति । ऐषमस्त्यम्, ऐषमस्तनम् । ह्यस्त्यम् , ह्यस्तनम् । श्वस्त्यम्, श्वस्तनम्, शौवस्तिकम् ॥ १८ ॥ राष्टात् इयः । १९ । 'राष्ट्र'शब्दात् 'भव'आदौ अर्थे 'इय'प्रत्ययो भवति । राष्ट्रियः ॥ १९ ॥ ग्रामात् ईना-यौ । २० । 'ग्राम'शब्दात् 'भव'आदौ अर्थे 'ईनञ्'-'य'प्रत्ययौ भवतः । १. संपूर्ण सूत्रमेवम्- “स्व-ज्ञ-अज-भस्त्र-अधातु-त्यय-कात्" नामप्रकरणे षष्ठपादे सूत्रम् ३६ । २. "निर्गतो वर्णाश्रमादिभ्य इति निष्टयश्चण्डालादिः” १०९। शा. अ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy