________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
"उष्ण'आदिभ्यः कालात् । ७। 'उष्ण'आदिपूर्वपदात् 'काल'अन्तात् 'भव'आदौ अर्थे 'ईय'प्रत्ययो भवति । उष्णकालीयः । 'उष्ण'आदयः प्रयोगगम्याः ॥ ७ ॥
'वि'आदिभ्यः णिक-इकणौ । ८। 'वि'आदिपूर्वात् 'काल'शब्दात् 'भव'आदौ अर्थे 'णिक'-'इकण्' प्रत्ययौ भवतः ।
वैकालिकः, वैकालिका । वैकालिकी । ऐदंकालिकः । 'वि'आदयः प्रयोगगम्याः ॥ ८ ॥
___ 'काशि'आदेः।९। एभ्यः दुसंज्ञकेभ्यः ‘भव'आदौ अर्थे ‘णिक'-'इकण' प्रत्ययौ भवतः ।
काशिकः, काशिका, काशिकी । काशि चेदि देवदत्त सांयाति सांवाह अच्युत मोदमान श्वकुलाल हस्तिकर्पू हिरण्य करण अरिंदम सधमित्र सिन्धुमित्र दासमित्र छागमित्र शौवावतान तारङ्गि युवराज उपराज देवराज इति 'काशि'आदिः ॥ ९ ॥
वाहीकेषु ग्रामात् । १० । वाहीकदेशे यः ग्रामः तद्वाचिदुसंज्ञकात् भवादी अर्थे 'णिक'-'इकण'प्रत्ययौ भवतः ।
शाकलिकः । सैपुरिकः । दोः इति किम् ? देवदत्तं नाम वाहीकग्रामः तत्र जातः देवदत्तः ॥ १० ॥
वा उशीनरेषु । ११ । उशीनरेषु यः ग्रामः तद्वाचिन: दुसंज्ञकात् 'भव'आदौ अर्थे 'णिक'-'इकण्' प्रत्ययो वा भवतः । सौदर्शनिकः, सौदर्शनिका, सौदर्शनिकी, सुदर्शनीयः ॥ ११ ॥
भवतः कण-ईयसौ । १२ । 'भवत्'शब्दात् दुसंज्ञकात् 'भव'आदौ अर्थे 'कण्'-'ईयस्' प्रत्ययौ भवतः । भावत्कः । भवदीयः । दोः इति किम् ? भवतः इदम् भावतम् ॥ १२ ॥
'नदी आदेः एयण् । १३ । एभ्यः ‘भव'आदौ अर्थे एयण प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org