________________
तद्धिते दशमः पादः
दुः 'त्यद आदिः।१। 'त्यद्'आदिः दुःसंज्ञो भवति । त्यदीयः । तादायनिः ॥ १ ॥
यस्य स्वरेषु आदिः वृद्धिः।२। यस्य शब्दस्य स्वराणाम् आदिः स्वरः वृद्धिः सः दुसंज्ञो भवति ।
आम्रगुप्तायनिः । ऐतिकायनीयः । औपगवीयः । बुद्धिसंनिकृष्टस्वरसंनिवेशापेक्षम् आदित्वं विज्ञायते ततः व्यञ्जनादेः अपि संज्ञा सिद्धा । आदिः इति किम् ? इह न भवतिसभासंनयने भवः साभासंनयनः ॥ २ ॥
देशे एव एड् 'ईय'आदौ । ३ । देशे एव वर्तमानस्य यस्य शब्दस्य स्वराणाम् आदिः स्वरः एड् भवति सः 'ईय' आदौ विधातव्ये दुसंज्ञो भवति ।
. सैपुरिकी, सैपुरिका । सेपुरं वाहीकग्रामः । देशे इति किम् ? दैववाचकं नन्धध्ययनम् । एवकारः अन्यत्र वृत्तिव्यवच्छेदार्थः तेन देशे अन्यत्र च वर्तमानस्य न भवति । क्रोडः नाम वाहीकग्रामः तत्र भवः क्रौडः। 'क्रोड' शब्दः स्वाङ्गेऽपि वर्तते । 'ईय' आदी इति किम् ? 'आयनिञ्' आदौ न भवति ।। ३ ॥
प्राग्देशे। ४। प्राग्देशे वर्तमानस्य यस्य शब्दस्य स्वराणाम् आदिः स्वरः एड् सः 'ईय'आदौ प्रत्यये विधातव्ये दुसंज्ञो भवति ।। क्रोडः नाम प्रागग्रामः तत्र भवः क्रोडीयः ॥ ४ ॥
नाम वा। । संव्यवहाराय हठात् नियुज्यते यद् 'देवदत्त'आदि तत् नाम दुसंज्ञं वा भवति । षण्नयान् आहुः सिद्धसेनीयाः, सैद्धसेनाः ॥ ५ ॥
दोः 'भव'आदौ ईयः।६। 'दु'संज्ञकात् 'भव'आदौ अर्थे 'ईय'प्रत्ययः भवति ।
देवदत्तीयः । तदीयः । भोजकटीयः ॥ ६ ॥ १. 'कोडं नाम उदग्रामः' १1१।२०। शा० अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org