________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
केडङ्गर-दक्षिणा- स्थालीबिलात ईय-यौं । १७२ ।
‘कडङ्गर’आदिभ्यः ‘अम्’अन्तेभ्यः 'अर्हति' अर्थे ई-यौ प्रत्ययौ भवतः । कैडङ्गरीयः, कडङ्गर्यः बलीवर्दः । कैडङ्गरः माषादिकाष्टम् । दक्षिणीयः, दक्षिण्यः गुरुः । स्थालीबिलीयाः स्थालीबिल्याः तन्दुलाः ॥ १७२ ॥
1
कौपीन - शालीन आर्त्विजीनाः । १७३ ।
३९० ]
एते ‘अर्हति'अर्थे 'ईनञ्' प्रत्ययान्ता निपात्यन्ते । कूपप्रवेशम् अर्हति कौपीनः - पापस्य, पायु-उपस्थस्य तदावरणचीवरखण्डस्य च वाचकः । शालाप्रवेशनम् अर्हति शालीनः अधृष्टः । शालीनाभार्यः । ऋत्विज्' 'ऋत्विक्रर्म' शब्दात् वा ईनञ् आर्त्विजीनःऋत्विग् एव ॥ १७३ ॥
नित्यम् 'छेद' आदेः । १७४ |
‘छेद’आदिभ्यः ‘अम्’अन्तेभ्यः 'नित्यम् अर्हति'अर्थे यथाविहितं प्रत्ययो भवति । छेदं नित्यम् अर्हति छेदिकः । छेद भेद दोह द्रोह कर्ष विकर्ष विप्रकर्ष प्रकर्ष प्रयोग विप्रयोग संप्रयोग नर्त प्रेक्षण संप्रश्न विप्रश्न इति 'छेद' आदिः ॥ १७४ ॥ वैरङ्गिकः । १७५ ।
'विराग' शब्दात् 'नित्यम् अर्हति' अर्थे इकण् प्रत्ययः ‘विरङ्ग'आदेशश्च निपात्यते । विरागम् नित्यम् अर्हति वैरङ्गिकः ।। १७५ ।।
शीर्षच्छेदात् यः वा । १७६ ।
'शीर्षच्छेद' शब्दात् 'नित्यम् अर्हति' अर्थे यः वा भवति । शीर्षच्छेद्यः, शैर्षच्छेदिकः ।। १७६ ।।
॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्धिते नवमः पादः समाप्तः ॥
१. "कडकर - दक्षिणात् छच - ५।१।६९। 'कडंकरीयो गौः " - काशिका | “कडङ्गरो बुसं क्लोबे " - अमर० द्वितीयकाण्ड, वैश्यव० श्लो० २२| "करङ्कर इति हरदत्तपाठः, द्वे पलालादिक्षोदस्य' भूस' इति ख्यातस्य " - अमरटीका । २. "मुद्गादिकाष्ठम् कडङ्गरम् - ३२४१६६ | जैनेन्द्रे | कडङ्गरो माषादिकाष्ठम् । ३।२।१७६ । शा० चि० । ६।४।१८१ । हैमसूत्रेऽपि एवमेव ।
३. 'वि' शब्दात् 'ऋत्विक्कर्म' शब्दाद् वा खच् प्रत्ययः,
'कर्म' शब्दस्य लोपे निपात्यते "
-३।२।१७७१ शा० अ० 1
"6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org