________________
तद्धिते नवमः पादः
[२५ वंशान् भारभूतान् हरति वहति आवहति वा वांशिकः । भारात् इति किम् ? एकं वंशं हरति ।
अपरः अर्थः-'वंश'आदि यः परः यः 'भार'शब्दः तदन्तात् 'अम्'अन्तात् 'हरत्'आदौ अर्थे यथाविहितं प्रत्ययो भवति । वंशभारं हरति वहति आवहति वा वांशभारिकः । कौटभारिकः । वंशादेः इति किम् ? भारं वहति । भारात् इति किम् ? वंशं हरति । हरतिः देशान्तरप्रापणे चौर्ये वा । वहतिः उत्क्षिप्य धारणे । आवहतिः उपादाने । वंश कुट वल्वज मूल स्थूणा अक्ष अश्मन् इक्षु खट्वा इति 'वंश'आदिः ॥ १६६ ॥
द्रव्य-वस्नाभ्याम् क-इको । १६७। आभ्याम् 'अम्' अन्ताभ्याम् 'हरत्'आदौ यथासंख्यम् 'क'-'इक' प्रत्ययो भवतः । द्रव्यं हरति वहति आवहति द्रव्यकः । एवम् वस्निकः ॥ १६७ ।।
द्रोणात् पचति अञ् च । १६८ । 'द्रोण'शब्दात् 'अम्'अन्तात् 'पचति'अर्थे अञ् चकारात् अधिकृतश्च इकण् प्रत्ययो भवति । द्रोणं पचति द्रौणः, द्रौणिकः ।। १६८ ॥
अर्हति । १६९। 'अम्'अन्तात् 'अर्हति'अर्थे यथाविहितं प्रत्ययो भवति ।
वस्त्रम् अर्हति वास्त्रिकः । शत्यः । शतिकः । ‘भाजनम् अर्हति' इत्यादौ अनभिधानात् न भवति ।। १६९ ॥
यज्ञ-दण्डादिभ्याम् इय-यो । १७० । आभ्याम् 'अम्'अन्ताभ्याम् 'अर्हति'अर्थे यथासंख्यम् ‘इय'-'य' प्रत्ययौ भवतः ।
यज्ञम् अर्हति यज्ञियः । दण्ड्यः । मुसल्यः । दण्ड मुसल मधुपर्क कशा अर्घ मेधा उदक इभ युग इति 'दण्ड'आदिः ।। १७० ॥
पात्रात् । १७१ । 'पात्र'शब्दात् 'अम्'अन्तात् 'अर्हति' अर्थे इय-यौ प्रत्ययौ भवतः । पात्रियः, पात्र्यः ॥ १७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org