________________
३८ ]
आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् ।
ज्ञाते । १६० ।
‘पृथिवी’-‘सर्वभूमि’शब्दाभ्याम् ज्ञाते अर्थे अञ् प्रत्ययो भवति । ज्ञातः विदितः
प्रकाशितः इत्यर्थः ।
पृथिव्याः ज्ञातः पार्थिवः । सार्वभौमः । कर्तृसंबन्धविवक्षायां षष्ठी ॥ १६० ॥ लोक-सर्वलोकात् । १६१ ।
आभ्याम् ‘तस्य' इति षष्ठ्यन्ताभ्याम् यथाविहितम् इकण् प्रत्ययो भवति । लोकस्य ज्ञातः लौकिकः । सार्वलौकिकः ॥ १६१ ॥
अम् पचत्-संभवत्-अवहरति । १६२ । ‘अम्’अन्तात् ‘पचत्’आदौ अर्थे यथाविहितं प्रत्ययो भवति ।
प्रस्थं पचति संभवति अवहरति वा प्रास्थिकम् । संभवति - अवगृह्णाति - इत्यर्थः । अत एव अयं सकर्मकः । अवहार: उपसंहरणम् ॥ १६२ ॥
पात्र आढक- आचितात् ईनः वा । १६३ ।
'पात्र' आदिभ्यः 'अम्' अन्तेभ्यः पचत् 'आदौ अर्थे वा 'ईन' प्रत्ययो भवति । पक्षे इण् ।
पात्रीणः, पात्रिकः । आढकीनः, आढकिकः । आचितीनः, आचितिकः ॥ १६३ ॥ द्विगोः ईन-इकटौ । १६४ । ‘पात्रादि’अन्तात् द्विगोः ‘अम्'अन्तात् 'पचत्' आदौ अर्थे 'ईन' - 'इकट्' प्रत्ययौ वा भवतः । पक्षे इण् ।
Jain Education International
द्वे पात्रे पचति संभवति अवहरति वा द्विपात्रीणः, द्विपात्रिकः, द्विपात्रः । द्वयाढकीनः, ट्र्याढकिकः, दयाढकः । याचितीनः, द्वयाचितिकः, दयाचितः ॥ १६४॥
नुक् च कुलिजात् । १६७ ।
'कुलिज ' शब्दान्तात् द्विगो: 'अम्' अन्तात् 'पचत् 'आदौ अर्थे 'ईन' - इकट्' प्रत्ययौ वा भवतः पक्षे इण् तस्य च वा लुक् ।
द्विकुलिजीनः, द्विकुलिजिकः, द्वैकुलिजिकः, द्विकुलिजः || १६५ ॥
हरत्-वहत्-आवहत्सु वंशादेः भारात् । १६६ ।
'भारभूत'अर्थवाचिनः 'वंश' आदेः 'अम्' अन्तात् 'हरत् ' आदौ अर्थे यथाविहितं प्रत्ययो भवति ।
For Private & Personal Use Only
www.jainelibrary.org