________________
तद्धिते नवमः पादः प्रास्थिकम् । खारीकम् ॥ १५३ ॥
वात-पित्त-श्लेष्म-सन्निपातात् शमन-कोपने । १५४ ।
'वात'आदिभ्यः 'तस्य' इति षष्ट्यन्तेभ्यः शमने कोपने च अर्थे इकण प्रत्ययो भवति । शाम्यति येन तत् शमनम् । येन च कुप्यति तत् कोपनम् ।।
वातस्य शमनम् कोपनम् वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् । सान्निपातिकम् ।। १५४ ॥
संयोग-उत्पाते हेतौ । १५५ । 'तस्य' इति षष्ठ्यन्तात् संयोगे उत्पाते वा हेतौ अर्थे यथाविहितं प्रत्ययो भवति । हेतुः निमित्तम् । संयोगः संबन्धः । प्राणिनाम् शुभ-अशुभसूचकः भूतपरिणामः उत्पातः ।
शतस्य हेतुः देवदत्तसंयोगः शत्यः । सोमग्रहणस्य हेतुः सोमग्रहणिकः भूमिकम्पः उत्पातः ।। १५५ ॥ द्विस्वर-ब्रह्म-वर्चसात् यः असंख्या-परिमाण-अश्वादेः । १५६ ।
द्विस्वरात् संख्या परिमाण-'अश्व आदिवर्जात् 'ब्रह्म'-'वर्चस' शब्दात् च 'तस्य' इति षष्ठ्यन्तात् संयोगे उत्पाते हेतौ अर्थे 'य' प्रत्ययो भवति ।
धनस्य हेतुः संयोगः उत्पातो वा धन्यः । यशस्यः । आयुष्यः । असंख्यापरिमाण-अश्वादेः इति किम् ? पञ्चकः । शौपः । आश्विकः । अश्व अश्मन् गण उमा ऊर्णा भङ्गा वर्ष इति 'अश्व'आदिः ॥ १५६ ॥
पुत्रात् ईयः च । १५७। 'पुत्र'शब्दात् षष्ठ्यन्तात् संयोगे उत्पाते हेतौ अर्थे ईयः यः च प्रत्ययो भवति । पुत्रस्य हेतुः संयोगः उत्पातो वा पुत्रीयः, पुत्र्यः ॥ १५७ ॥
पृथिवी-सर्वभूमिभ्याम् अञ् । १५८ । आभ्याम् तस्य हेतुः संयोगः उत्पातो वा इत्यर्थे अञ् प्रत्ययो भवति । पृथिव्याः हेतुः संयोगः उत्पातो वा पार्थिवः । सार्वभौमः ॥ १५८ ॥
ईशे । १५९। 'पृथिवी'-'सर्वभूमि'शब्दाभ्याम् 'तस्य' इति षष्ठ्यन्ताभ्याम् ईशे अर्थे अञ् प्रत्ययो भवति ।
पृथिव्याः ईशः पार्थिवः । सार्वभौमः ॥ १५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org