________________
३८६] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । तत् अत्र अस्मै वा वृद्धि-आय-लाभ उपदा-शुल्कम् देयम् । १४९ ।
'तत्' इति प्रथमान्तात् 'अत्र' इति 'सप्तमी' अर्थे 'अस्मै' इति 'चतुर्थी' अर्थे वा यथाविहितं प्रत्ययो भवति । यत् तत् प्रथमान्तम् तत् चेत् वृद्धिः आयः लाभः उपदा शुल्कं वा देयं स्यात् । अधमर्णेन उत्तमर्णधनातिरिक्तं देयम् वृद्धिः । 'ग्राम'आदिषु नित्यनिबद्धो ग्राह्यः भागः आयः । 'पट'आदीनां मूल्यातिरिक्तं प्राप्तं द्रव्यम् लाभः । उपदा उत्कोचः । वणिजां राजदेयो भागः शुल्कम् ।
पञ्च अस्मिन् शते वृद्धिः पञ्चकं शतम् । पञ्च अस्मिन् ग्रामे आयः पञ्चकः ग्रामः। पञ्च अस्मिन् पटे लाभः पञ्चकः पटः । पञ्च अस्मिन् व्यवहारे उपदा पञ्चकः व्यवहारः । पञ्च अस्मिन् शते शुल्कम् पञ्चकं शतम् । पञ्च अस्मै चैत्राय वृदिः आयः लाभः उपदा शुल्कं वा देयम् पञ्चकः चैत्रः ।। १४९ ॥
पूरणात् अर्धात् इकः। १५० । 'पूरण'प्रत्ययान्तात् 'अर्ध'शब्दात् च 'तत्' इति प्रथमान्तात् 'अत्र' 'अस्मै' च इत्यर्थे 'इक' प्रत्ययो भवति । तत् चेत् प्रथमान्तम् वृद्धिः आयः लाभः उपदा शुल्कं वा देयं स्यात् ।
द्वितीयम् अस्मिन् अस्मै वा वृद्धिः आयः लाभः उपदा शुल्कम् वा देयम् द्वितीयिकः । 'अर्ध'शब्द: रूपकार्धवाची-अधिकः । अर्धिका स्त्री ॥ १५० ॥
भागात् यः च । १५१ । 'भाग'शब्दात् 'तत् अत्र अस्मै वा वृद्धिः आयः लाभः उपदा शुल्कं वा देयम्' इति विषये 'य' प्रत्ययः इकः च भवति ।
__ भागः अस्मिन् अस्मै वा 'वृद्धि'आदि देयम् भाग्यः । भागिकः । 'भाग' शब्दः रूपकार्थे रूढः ॥ १५१ ॥
भृति-अंश-वस्नम् अस्य । १५२ । 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, तत् चेत् प्रथमान्तम् भृतिः वेतनम् , अंशः भागः । वस्नं मूल्यम् वा स्यात् ।
पञ्च अस्य भृतिः पञ्चकः कर्मकरः । पञ्च अस्य अंशाः पञ्चकं नगरम् । पञ्च अस्य वस्नम् पश्चकः पटः ॥ १५२ ।।
तस्य वापे । १५३ । 'तस्य' इति षष्ठ्यन्तात् वापे अर्थे इकण् प्रत्ययो भवति । उप्यते अस्मिन् इति वापः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org