SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तद्धिते नवमः पादः [ ३८५ प्रस्थः परिमाणम् अस्य प्रास्थिकः । खारीकः । षष्टिः जीवितमानम् अस्य षाष्टिकः । जीवितपरिमाणवृत्तेः 'तम् भावि भूते' [ ] इति न भवति । यस्य हि षष्टिः वर्षाणि जीवितपरिमाणम् सः षष्टिम् भूतः भावी वा भवति ॥ १४३ ॥ संख्याया: पाठ- सूत्र - संवे | १४४ | संख्यावाचिनः 'तत्' इति प्रथमान्तात् 'मान' उपाधिकात् 'अस्य' इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, स चेत् षष्ठयर्थः पाठः सूत्रम् संघः वा भवति । पाठः अधीतिः । शास्त्रम् सूत्रम् । संघः समुदायः अष्टौ वारा: परिमाणम् अस्य अष्टकः पाठः । अष्टौ अध्यायाः परिमाणम् अस्य अष्टकम् पाणिनीयं सूत्रम् । द्वादशकं मलयगिरीयम् । पञ्च पुरुषाः परिमाणम् अस्य पञ्चकः संघः । पाठ- सूत्र - संघे इति किम् ? चतुष्टयी शब्दानां वृत्ति: । संघ-भेदे च अभेदरूपतापन्ने तय-अयटोः बाधकम् इदम् । भेदरूपतापत्तौ तु यट् एव । यथा द्वये देवमनुष्याः || १४४ ॥ भवति । १ स्तोमे डट् | १४५ । संख्यायाः स्तोमे अभिधेये 'तत् अस्य परिमाणम्' इत्यस्मिन् विषये डट् प्रत्ययो विंशः । त्रिंशः । पञ्चदशः पक्षः || १४५ ।। पञ्चत्-दशत् वर्गे वा । १४६ । 'पश्चात् ' - 'दशत्' शब्दौ 'ड' प्रत्ययान्तौ निपात्येते, 'तत् अस्य परिमाणम्' इत्यस्मिन् विषये वर्गे वाच्ये । पक्षे कः । पश्चत्, पश्चकः । दशत्, दशकः वर्गः ॥ १४६॥ Jain Education International नाम्नि । १४७ । संख्यावाचिनः स्वार्थे यथाविहितं प्रत्ययो भवति, समुदायः चेत् नाम स्यात् । पञ्च एव पञ्चकाः शकुनयः । सप्तकाः वृक्षाः ॥ १४७ ॥ त्रैश चात्वारिंशम् । १४८ । एतौ 'ड' प्रत्ययान्तौ 'तत् अस्य परिमाणम्' इत्यस्मिन् विषये नाम्नि निपात्येते । त्रिंशत् अध्यायाः परिमाणम् एषाम् शानि चात्वारिंशानि कानिचित् एवम् उच्यन्ते ॥ १४८ ॥ १. खण्डितं प्रतिभाति । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy