________________
३८४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
द्वाभ्यां कंसाभ्याम् द्विकस्या वा क्रीतम् द्विकंसम् । द्विसूर्पम् । अलुचः इति किम् ? द्वाभ्यां सूर्पाभ्यां क्रीतम् द्विसूर्पम् तेन क्रीतम् द्विसौर्पिकम् । अनाम्नि इति किम् ? पञ्च लोहिन्यः परिमाणम् अस्य पाञ्चलोहितिकम् । पित्कारः पुंभावार्थ:-पञ्चगर्गः ॥१३८॥
वा अणः । १३९ । अलगन्तात् द्विगोः परस्य 'आ अर्हत्' अर्थोत्पन्नस्य अणः श्लग वा भवति । द्विसहस्रम् । द्विसाहस्रम् । अणः इति किम् ? द्वौ द्रोणौ पचति द्विद्रोणः ॥१३९॥
सुवर्ण-कार्षापणात् । १४० । 'सुवर्ण'-'कार्षापण'अन्तात् द्विगो: अलुगन्तात् परस्य 'आ अर्हत् अर्थोत्पन्नस्य प्रत्ययस्य श्लुग् वा भवति । द्विसुवर्णम् । द्विसौवर्णिकम् । द्विकार्षापणम् । द्विकार्षापणिकम् ॥ १४० ॥
द्वि-त्रि-बहोः निष्क-विस्तात् । १४१ । 'द्वि'-'त्रि'-'बहु'पूर्वात् 'निष्क'-'विस्त'शब्दान्तात् द्विगो: अलुगन्तात् परस्य 'आअर्हत्'अर्थोत्पन्नस्य प्रत्ययस्य श्लुग् वा भवति ।
द्विनिष्कम् । द्विनैष्किकम् । त्रिनिष्कम् । त्रिनैष्किकम् । बहुनिष्कम् । बहुनैष्किकम् । द्विविस्तम् । द्विवैस्तिकम् । त्रिविस्तम् । त्रिवैस्तिकम् । बहुविस्तम् । बहुवैस्तिकम् ॥१४१॥
मूल्यैः क्रीते । १४२ । मूल्यवाचिनः निर्देशात् एव तृतीयान्तात् क्रीते अर्थे यथाविहितं प्रत्ययः भवति ।
सप्तत्या क्रीतम् साप्ततिकम् । त्रिंशकम् । मूल्यः इति किम् ? चैत्रेण क्रीतम् । 'सूर्याभ्याम् सूर्यैः वा क्रीतम्' इत्यत्र परिमाणवाचिशब्दात् द्विवचन-बहुवचनान्तात् प्रत्ययः न भवति अनभिधानात्, न हि वाक्ये वा वृत्तौ भेदसंख्यावाचिनी विभक्तिः अस्ति इति । यत्र तु भेदसंख्याप्रतिपत्तौ प्रमाणम् अस्ति तत्र भवत्येव-द्वाभ्यां क्रीतम् द्विकम् । द्वाभ्यां सूर्पाभ्यां क्रीतम् द्विसूर्पिकम् । मुद्गः क्रीतम् मौद्दिकम् । न हि एकेन मुद्गन क्रयः संभवति ॥ १४२ ॥
तत् अस्य मानम् । १४३ । 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति । यत् तत् प्रथमान्तम् तत् चेत् मानं स्यात् । मानम् इयत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org