________________
तद्धिते नवमः पादः
[ ३८३ 'विंशतिक'अन्तात् द्विगो: 'आ अर्हत्' अर्थे ईन' प्रत्ययो भवति । विधानसामर्थ्यात् तु श्लग् न भवति । द्विविंशतिकीनम् ॥ १३२ ॥
खारी-काकणीभ्यः कच । १३३ । 'खारी'-'काकणी'अन्तात् द्विगोः केवलाभ्यां च खारी-काकणीभ्याम् 'आ अर्हत्' अर्थे कच् प्रत्ययो भवति ।
द्विखारीकम् । द्विकाकणीकम् । बहुवचनं केवलार्थम्-खारीकम् । काकणीकम् । चकारः 'न कचि' [ ] इति प्रतिषेधार्थः ॥ १३३ ॥
___ माष-पण-पादात् यः। १३४ । 'माष'आदिअन्तात् द्विगो: 'आ अर्हत्' अर्थे 'य'प्रत्ययो भवति ।
द्विमाष्यम् । द्विपण्यम् । द्विपाद्यम् । 'माष'-'पण'साहचर्यात् पादः परिमाणम् न प्राण्यङ्गम् इति 'पत् काषि-हिम-हति-ये' [ ] इति 'पद्'भावः न भवति ॥१३४॥
शतात् वा । १३५ । 'शत'अन्तात् द्विगोः 'आ अर्हत्' अर्थे 'य'प्रत्ययो वा भवति । पक्षे संख्यालक्षणः कः, तस्य च लुक् । अस्य तु विधानसामर्थ्यात् न । द्विशत्यम् । द्विशतम् ॥ १३५ ॥
शाणात् । १३६ । 'शाण'अन्तात् द्विगो: 'आ अर्हत्' अर्थे 'य'प्रत्ययो वा भवति । द्विशाण्यम् । द्विशाणम् । पृथग्योग उत्तरार्थः ॥ १३६ ॥
द्वि-त्रेः अण् च । १३७ । द्वि'-'त्रि'पूर्वः यः 'शाण'शब्दः तदन्तात् द्विगोः 'आ अर्हत्' भर्थे 'अण'-'य' प्रत्ययौ भवतः, पक्षे इकण तस्य च लुक् । द्विशाण्यम् । द्विशाणम् । त्रिशाण्यम् । त्रिशाणम् ॥ १३७ ॥
अलुचः अनाम्नि श्लुक पित् । १३८ । __ अलगन्तात् द्विगोः 'आ अर्हत्' अर्थे उत्पन्नस्य प्रत्ययस्य "छक् भवति, सा च पित् , न चेत् प्रत्ययान्तं कस्यचित् नाम स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org