________________
२४९) आचार्यश्रीमलवगिरिचिरचितं शब्दानुशासनम् शब्दस्य 'प्रतिः' आदेशो वा ।
कार्षापणिकम् । प्रतिकम् । चकारः आदेशस्य प्रेत्ययसंनियोगशिष्टतार्थः अत एव द्विगो: लुचि प्रत्ययादेशो न भवति-द्विकार्षापणम् ।। १२५ ॥
सहस्र-शतमानात् अण् । १२६ । आभ्याम् 'आ अर्हत्' अर्थे 'अण' प्रत्ययो भवति । साहस्रः । शातमानः ॥ १२६ ॥
वा अतोः इकः । १२७ । 'अतु'अन्तात् 'आ अर्हत्' अर्थ 'इक' प्रत्ययो वा भवति । यावतिकम् , यावत्कम् ।। १२७ ॥
अनादेः शतात् अतस्मिन् य-इको । १२८ । 'शत'शब्दात् अपूर्वपदात् 'आ अर्हत्' अर्थे वस्तुतः प्रकृत्यर्थात् भिन्ने 'थ-इक' प्रत्ययौ भवतः ।
शत्यम् । शतिकम् । अनादेः इति किम् ? द्वयुत्तरं शतम् द्विशतम् तेन क्रीतम् द्विशतकम् । अतस्मिन् इति किम् ? शतम् मानम् अस्य शतकः ग्रन्थविशेषः ॥ १२८ ॥
सूर्पात् अञ् वा । १२९ । 'सूर्प'शब्दात् 'आ अर्हत्' अर्थे वा अञ् प्रत्ययो भवति । सौर्पम् , सौर्पिकम् ॥ १२९ ॥
वसनात् । १३०। 'वसन'शब्दात् 'आ अर्हत्' अर्थे अञ् प्रत्ययो भवति । वसनेन क्रीतम् धासनम् ॥ १३० ।
विंशतिकात् । १३१ । विंशतिकात् 'आ अर्हत्' अर्थे अन् प्रत्ययो भवति । बैंशतिकम् । पृथग्योगः उत्तरार्थः ॥ १३१ ॥
दिगोः ईनः। १३२।
१. प्रत्ययनिमित्तकः 'प्रति'आदेशः इति भावः । २. व्याख्याप्रज्ञप्तिनामके पञ्चमअङ्गरूपे जैनसत्रे 'शतक नाम्ना प्रकरणानि विद्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org