________________
तद्धिते नवमः पादः
'व्युष्ट'आदिषु अण् । ११९ । 'व्युष्ट'आदिभ्यः सप्तम्यन्तेभ्यः देये कार्ये च अर्थे अण् प्रत्ययो भवति ।
व्युष्टे देयम् कार्यम् वा वैयुष्टम् । व्युष्ट नित्य निष्क्रमण प्रवेशन तीर्थ संग्राम संघात प्रवास उपवास अग्निपद पीलुमूल इति 'व्युष्ट'आदिः ॥ ११९ ॥
हस्त-यथाकथाचाभ्याम् य-णम् । १२० । आभ्याम् तृतीयान्ताभ्याम् देये कार्ये च अथें यथासंख्यम् 'य-ण'प्रत्ययो भवति । हस्तेन देयम् कार्यम् वा हस्त्यम् । यथाकथाच अनादरेण याथाकथाचम् ॥१२०॥
डकः त्रिंशत-विंशतेः अनाम्नि आ अहा॑त् । १२१ ।
'आ अर्हत्' अर्थात् यः अर्थः वक्ष्यते तस्मिन् गम्ये त्रिंशत्-विंशतिभ्याम् अनाम्नि 'डक'प्रत्ययो भवति ।
त्रिंशता क्रीतम् त्रिंशकम् । विंशकम् । त्रिंशतम् अर्हति त्रिंशकः । विंशकः । अनाम्नि इति किम् ? त्रिंशत्कम् । विंशतिकम् ।। १२१ ॥
संख्या-डतेः च अशत्-ति-ष्टेः कः । १२२ । शत्-ति-ष्टिवर्जितायाः संख्यायाः डतेः त्रिंशत्-विंशतिभ्यां च 'आ अर्हत्' अर्थे 'क' प्रत्ययो भवति ।
द्विकम् । बहुकम् । गणकम् । यावत्कम् । कतिकम् । त्रिंशत्कम् । विंशतिकम् । अशत्-ति-ष्टेः इति किम् ? चात्वारिंशत्कम् । साप्ततिकम् । पाष्टिकम् ॥ १२२ ।।
कंस-अर्धात् इकन् । १२३ । 'कंस'-'अर्ध'शब्दाभ्याम् 'आ अर्हत्' अर्थे इकट् प्रत्ययो भवति । कंसिकम् । अधिकम् । टकारः ङ्यर्थः--कंसिकी ॥ १२३ ॥
अर्धात् पल-कंस-कर्षात् । १२४ । 'अर्ध'पूर्वपदेभ्यः 'पल'आदिभ्यः आ 'अर्हत्' अर्थे इकट् प्रत्ययो भवति । अर्धपलिकम् । अर्धकंसिकम् । अर्धकर्षिकम् ॥ १२४ ॥
कार्षापणात् प्रतिः च अस्य वा । १२५ । 'कार्षापण'शब्दात् 'आ अर्हत्' अर्थे 'इकट' प्रत्ययो भवति, अस्य च 'कार्षापण' १. 'अस्य' इति स्थानिप्रनिपत्त्यर्थम् अन्यथा 'प्रतिः' प्रत्ययान्तरं विज्ञायेत' - ३।२।१३२॥
शा.
अ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org