________________
३८० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
चन्द्रायणं च चरति । ११३ । 'चन्द्रायण'शब्दात् 'गोदान'आदिभ्यश्च . द्वितीयान्तेभ्यः 'चरति'अर्थे इकण प्रत्ययो भवति । चन्द्रायणं चरति चान्द्रायणिकः । गौदानिकः । माहानामिकः ॥ ११३ ॥
'देवव्रत'आदीन् डिन् । ११४। 'देवव्रत'आदिभ्यः द्वितीयान्तेभ्यः 'चरति'अर्थे डिन् प्रत्ययो भवति । देवव्रतं चरति देवव्रती । तिलवती । 'देवव्रत'आदयः प्रयोगगम्याः ॥ ११४ ॥ डकः च अष्टाचत्वारिंशत्-चातुर्मास्यं 'य'लुक् च । ११५ ।
'अष्टाचत्वारिंशत्-चातुर्मास्य'इत्येताभ्याम् - द्वितीयान्ताभ्याम् 'चरति'अर्थे 'डक' प्रत्ययो भवति डिन् च, यकारस्य लुक् च ।
अष्टाचत्वारिंशत् वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी। चातुर्मास्यानि चरति चातुर्मासकः । चातुर्मासी ॥ ११५ ।।
यज्ञानाम् दक्षिणायाम् । ११६ । यज्ञवाचिनः षष्ठ्यन्तात् दक्षिणायाम् अर्थे इकण् प्रत्ययो भवति । अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । वाजपेयिकी ॥ ११६ ॥
तेषु देये । ११७ । यज्ञवाचिभ्यः सप्तम्यन्तेभ्यः देये अर्थे इकण् प्रत्ययो भवति । अग्निष्टोमे देयम् आग्निष्टोमिकम् । वाजपेयिकम् भक्तम् ।। ११७ ॥
काले कार्य च भववत् । ११८ । कालवाचिनः सप्तम्यन्तात् देये कार्ये च अर्थे भववत् प्रत्ययो भवति । वतिः सादृश्यार्थः । तेन याभ्यः प्रकृतिभ्यः येन विशेषेण ये प्रत्ययाः भवे अर्थे भवन्ति ताभ्यः प्रकृतिभ्यः तेन विशेषेण कार्ये देये च अर्थे ते प्रत्यया भवन्ति ।
वर्षासु देयम् कार्यम् वा वार्षिकम् । एवं शारदिकम् श्राद्धं कर्म । शारदः, शारदिकः रोगः आतपः वा । नैशम् नैशिकम् । पुराणं वा पुरातनम् । शौवस्तिकम् । श्वस्त्यम् । श्वस्तनम् । पूर्वाण्हेतनम् । सायंतनम् । परुत्नम् । पौषम् । शैशिरम् । सान्ध्यम् । सांवत्सरम् । द्वयोः मासयोः कार्यम् देयम् वा द्वैमासिकम् ॥ ११८ ॥
१. “चतुर्दा मासेषु भवानि चातुर्मास्यानि" ३।२।८२। शा• अ० । २. 'प्रत्ययस्य भावः अत्र आदिश्यते न अभावः इति द्विगोः लुग न भवति" ।३।२।९५। शा. अ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org