________________
तद्धिते नवमः पादः क्रोशशतात् अभिगमार्हः क्रौशशतिकः मुनिः। यौजनशतिकः मुनिः। यौजनशतिकः गुरुः । यौजनिकः साधुः ॥ १०६ ॥
तत् याति एभ्यः। १०७। 'तत्' इति द्वितीयान्तेभ्यः 'क्रोश-योजन'पूर्वक शत'शब्द-योजनशब्देभ्यः 'गच्छति' अर्थे इकण प्रत्ययो भवति । क्रोशशतं याति क्रौशशतिकः, यौजनशतिकः, योजनिकः दूतः ॥ १०७॥
पथः इकट् । १०८। 'पथिन्'शब्दात् "तत्' इति द्वितीयान्तात् 'याति' अर्थे 'इकट्' प्रत्ययो भवति ।
पन्थाम थाति पथिकः, पथिकी स्त्री । द्विपथिकः । त्रिपथिकः । कटेम् अकृत्वा 'इकट्'वचनात् अन्तरङ्गत्वात् समासान्तेऽपि भवति ॥ १०८ ॥
नित्यं णः पन्थश्च । १०९। 'पथिन्'शब्दात् 'तम् नित्यं याति' अर्थे णः प्रत्ययो भवति । 'पथिन्'शब्दस्य च 'पन्थ' आदेशः ।
पन्थानं नित्यं याति पान्थः । पान्था स्त्री । द्वैपन्थः ॥ १०९ ॥ स्थल-जङ्गल-अज-धारि-कान्तार-उत्तर-शङ्कआदिना आहृते च । ११ ।
'स्थल आदिआदेः 'पथिन्' शब्दात् तृतीयान्तात् आहृते याति च अर्थे 'इकण' प्रत्ययो भवति ।
स्थलपथेन आहृतः याति वा स्थालपथिकः । जाङ्गलपथिकः । आजपथिकः । वारिपथिकः । कान्तारपथिकः । औत्तरपथिकः । शाङ्कुपथिकः ।। ११० ॥
'स्थल आदिना अण् मधुक-मरिचे । १११ । 'स्थल' पूर्वात् षथः तृतीयान्तात् आइते मधुके मरिचे वाच्ये अण प्रत्ययो भवति । स्थालपथं मधुकम् मरिचं वा । स्थालपथिकम् अन्यत् ॥ १.११ ॥
'गोदान'आदीनां ब्रह्मचर्य । ११२। 'गोदान'आदिभ्यः षष्ठ्यन्तेभ्यः ब्रह्मचर्ये वाच्ये इकण् प्रत्ययो भवति ।
गोदानस्य ब्रह्मचर्यम् गौदानिकम् । आदित्यव्रतानां ब्रह्मचर्यम् आदित्यवतिकम् । महानाम्न्यः नाम ऋचः तत्साहचर्यात् तासां व्रतम् अपि महानाम्न्यः तासां ब्रह्मचर्यम् माहानामिकम् । 'गोदान'आदयः प्रयोगगम्याः ॥ ११२ ॥ .
१. 'कटम्' इति प्रत्ययम् अकृत्वा-इति आशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org