________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
बिशाखा प्रयोजनम् अस्य वैशाखः मन्थः । विशाखायां हि पौर्णमास्यां सर्वे गोमन्तः सर्वं गोदोहं मध्नन्ति, मथित्वा गृहदेवतायै बलिम् उपहृत्य अतिथिभ्यः प्रदाम अवशिष्टं स्वयम् उपयुञ्जते ततः स मन्थः वैशाखः । आषाढा प्रयोजनम् अस्य आषाढः दण्डः । आषाढ्यां हि पौर्णमास्यां वेणुं छित्त्वा सर्वगन्धैः अनुलिप्य स्वयम् अनुलिप्ताः स्रग्विणः अलंकृताः कुमारकाः तेन अगाराणि अभिव्नन्ति ततः स दण्डः आषाढः ॥ १०० ॥ 'चूला' आदिभ्यः । १०१ ।
प्रत्ययो भवति ।
एभ्यः ‘तत् अस्य प्रयोजनम्' इत्यर्थे 'अणू' चूला प्रयोजनम् अस्य चौलम् । श्राद्धम् । शालम् । 'चूला 'आदयः प्रयोगगम्याः ॥ १०१ ॥
३७८ ]
'योग' आदये शक्ते । १०२ ।
‘योग’आदिभ्यः निर्देशात् एव चतुर्थ्यन्तेभ्यः शक्ते अर्थे इकण् प्रत्ययो भवति ।
योगाय शक्तः यौगिकः । योग संताप सन्नाह संग्राम संयोग संपराय संपेष निष्पेष निसर्ग विसर्ग उपसर्ग प्रवास उपवास संघात संक्रम सक्तु मांसौदन इति 'योग' आदिः ॥ १०२ ॥
योग्य कार्मुकौ । १०३ । एतौ शक्ते अर्थे ‘य’-‘उकञ् ' प्रत्ययान्तौ निपात्येते ।
योगाय शक्तः योग्यः । कर्मणे शक्तः कार्मुकः ॥ १०३ ॥
Jain Education International
तुरायणं यजमाने । १०४ । 'तुरायण' शब्दात् यजमाने अर्थे इकण् प्रत्ययो भवति । तुरायणं यजमानः तौरायणिकः ॥ १०४ ॥
संशयं प्राप्ते ज्ञेये । १०५ ।
‘संशयम्' इति द्वितीयान्तात् प्राप्ते ज्ञेये अर्थे 'इकण्' प्रत्ययो भवति ।
संशयं प्राप्तः सांशयिकः । ज्ञेये अर्भे इति किम् ? ज्ञातरि न भवति । सोऽपि हि संशयं प्राप्तो भवति तस्य तद्भावात् ॥ १०५ ॥
क्रोश-योजनात् शलात् योजनात् च अभिगमा । १०६ ।
क्रोश - योजनपूर्वात् 'शत' शब्दात् 'योजन' शब्दात् च पञ्चम्यन्तात् अभिगमा अर्थे इक प्रत्ययो भवति ।
For Private & Personal Use Only
www.jainelibrary.org