________________
तद्धिते नवमः पादः
[ ३७७ एकम्-असहायम्-अगारं प्रयोजनम् अस्य एकागारिकः चौरः । चौरे इति किम् ! एकम् अगारं प्रयोजनम् अस्य भिक्षोः । नियमार्थं वचनम् ॥ ९५ ॥
'स्वस्तिवाचन'आदिभ्यः श्लुग । ९६ । एभ्यः 'तत् अस्य प्रयोजनम्' इत्यस्मिन् अर्थे श्लग् भवति । .
स्वस्तिवाचनम् प्रयोजनम् अस्य स्वस्तिवाचनः । शान्तिवाचनः । 'स्वस्तिवाचन' आदयः प्रयोगगम्याः ॥ ९६ ॥
'स्वर्ग'आदिभ्यः यः। ९७ । एभ्यः 'तत् अस्य प्रयोजनम्' इत्यस्मिन् विषये 'य'प्रत्ययो भवति । स्वर्गः प्रयोजनम् अस्य स्वय॑म् । यशस्यम् । 'स्वर्ग'आदयः प्रयोगगम्याः ॥९॥
'उत्थापन'आदेः ईयः । ९८ । एभ्यः 'तत् अस्य प्रयोजनम्' इत्यस्मिन् विषये 'ईय'प्रत्ययो भवति ।
उत्थापनं प्रयोजनम् अस्य उत्थापनीयम् । उत्थापन अनुप्रवचन अनुवादनीय अनुपान अनुवासन आरम्भण इति 'उत्थापन'आदिः ।। ९८ ॥
विशि-पदि-रुहि-पूरि-समापः अनात् सपूर्वपदात् । ९९ ।
'विशि'आदिभ्यः 'अन'प्रत्ययान्तेभ्यः सर्वपदेभ्यः 'तत् अस्य प्रयोजनम्' इति विषये 'ईय'प्रत्ययो भवति । ।
संवेशनम् प्रयोजनम् अस्य संवेशनीयम् । गृहप्रवेशनीयम् । गोप्रपदनीयम् । अश्वप्रपदनीयम् । आरोहणीयम् । प्रासादारोहणीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ ९९ ॥
विशाखा-आषाढात् मन्थ-दण्डे । १००। 'विशाखा'"-आषाढा'शब्दाभ्याम् 'तत् अस्य प्रयोजनम्' इत्यर्थं यथासंख्यं मन्थे दण्डे च वाच्ये 'अण' प्रत्ययो भवति । १. अत्र 'अङ्ग'शब्देन जैनधर्मसंबन्धीनि अङ्गसूत्राणि ज्ञेयानि । 'जनेन्द्रसमापनीयम् , तर्कसमापनीयम्' इत्येवम् उदाहरणानि जैनेन्द्र प्रसिद्धानि-
३१.५। “समापि-अङ्गसमापनीयम् । श्रुतस्कन्धसमापनीयम् । व्याकरणसमापनीयम्"-एतानि च उदाहरणानि-सिद्धहेमे-६।४।१२२।
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org