________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
सः अस्य ब्रह्मचर्य-तद्वतोः । ८९ । 'सः' इति प्रथमान्तात् कालवाचिनः ‘अस्य' इति षष्ठ्यर्थे ब्रह्मचर्ये तद्वति च वाच्ये इकण प्रत्ययो भवति ।
___ मासः अस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् । मासिकः ब्रह्मचारी । एवम् आर्धमासिकः । सांवत्सरिकः ॥ ८९ ॥
समयात् प्रासात् । ९० । 'सः' इति प्रथमान्तात् 'समय'शब्दात् 'प्राप्त' उपाधिकात् 'अस्य' इति षष्ठयर्थे इकण प्रत्ययो भवति । समयः-अवसरः-प्राप्तः अस्य सामयिक कार्यम् ॥ ९० ॥
'ऋतु'आदिभ्यः अण् । ९१। एभ्यः 'प्राप्त'उपाधिकेभ्यः 'अस्य' इति षष्ठ्यर्थे अण प्रत्ययो भवति ।
ऋतुः प्राप्तः अस्य आर्तवं पुष्पम् । उपवस्ता प्राप्तः अस्य औपवनम् । 'ऋतु'आदयः प्रयोगगम्याः ॥ ९१ ॥
कालात् यः । ९२। 'काल'शब्दात् प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे 'य' प्रत्ययो भवति । कालः प्राप्तः अस्य काल्यः सूपः ॥ ९२ ।।
दीर्घात् । ९३ । कालशब्दात् दीर्घोपाधिकात् 'अस्य' इति षष्ठ्यर्थे 'इक' प्रत्ययो भवति । कालो दीर्घोऽस्य कालिकम् ऋणम् ॥ ९३ ।।
प्रयोजनम् । ९४। 'सः अस्य' इति वर्तते । 'सः' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे इकण् प्रत्ययो भवति । तत् चेत् प्रथमान्तं प्रयोजनं स्यात् । प्रयोजनम्-प्रयोजकम् । जिनमहः प्रयोजनम् अस्य जैनमहिकम् ॥ ९४ ॥
एकागारात् चौरे । ९५ । 'एकागार'शब्दात् 'तत् अस्य प्रयोजनम्' इत्यस्मिन् विषये इकण् प्रत्ययो भवति । 'अस्य' इति निर्दिष्टं चेत् चौरः स्यात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org