________________
तद्धिते नवमः पादः
[ ३७५ द्वाभ्यां रात्रिभ्याम् निर्वृत्तः इत्यादिविग्रहे द्विरात्रीणः, द्वैरात्रिकः । द्वयहीनः, द्वैयह्निकः । 'रात्रि'अन्तात् 'अहर्'अन्तात् च वचनस्य अनवकाशत्वात् समासान्तम् अटं बाधित्वा ईन एव भवति, तथा च सति समासान्तयोगे उच्यमानः 'संख्या-अव्यय-सर्वअंशात्' [ ] इति 'अह्न' आदेशो न भवति । द्विसंवत्सरीणः, द्विसांवत्सरिकः । द्विसमीनः, द्वैसमिकः ॥ ८३ ॥
वर्षात् अः च वा। ८४ । 'वर्ष'शब्दअन्तात् द्विगोः 'तेन निवृत्ते' इत्यादी अर्थे अकारप्रत्ययो भवति । ईनश्च वा, पक्षे इकण् ।
द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः । भाविनि आदिपदस्य एव वृद्धिः-द्वे वर्षे भावी द्वैवार्षिकी ॥ ८४ ॥
प्राणिनि भूते । ८५ । 'वर्ष'शब्दअन्तात् द्विगोः भूते अर्थे नित्यम् अकारप्रत्ययो भवति स चेत् भूतः प्राणी स्यात् ।
द्विवर्षः दारकः । प्राणिनि इति किम् ? द्विवर्षीणः द्विवर्षश्च व्याधिः । भूते इति किम् ? द्वाभ्यां वर्षाभ्यां भृतः अधीष्टः वा द्विवर्षः द्विवर्षीणः मर्त्यः ॥ ८५ ॥
__ मासात् वयसि यः। ८६ । 'मास'शब्दअन्तात् द्विगोः भूते अर्थे वयसि गम्यमाने यः प्रत्ययो भवति । द्वौ मासौ भूतः द्विमास्यः दारकः । वयसि इति किम् ? द्विमासिकः व्याधिः ॥८६॥
ईनः च । ८७। द्विगोः इति निवृत्तम् पृथग्वचनात् । 'मास'शब्दात् वयसि गम्यमाने यः ईनश्च प्रत्ययो भवति । मास्यः मासीनः दारकः । वयसि इति किम् ? मासिकः नायकः ॥ ८७ ॥
षण्मासात् य-यण्-इकणः । ८८ । 'षण्मास'शब्दात् कालवाचिनः भूते अर्थे वयसि गम्यमाने 'य'आदयः प्रत्यया भवन्ति । ... षण्मास्यः, पाण्मास्यः, पाण्मासिकः दारकः । भूतात् अन्यत्र पूर्वयोगेन ण्य-इको भवतः-पाण्मास्यः षण्मासिकः ॥ ८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org